Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ गुण० ॥११॥ सम्यग्मिथ्यात्वयोर्मध्ये, ह्यायुर्येनार्जितं पुरा। म्रियते तेन भावेन, गतिं याति तदाश्रिताम् ॥१७॥ व्याख्या-येन' बद्धायुषा जीवेन मिश्रभावावस्थायाः 'पुरा' पूर्व 'येन' सम्यक्त्वमिथ्यात्वयोरेकतरेण भावेन कृत्वायुःकर्म बद्धं, स जीवो मिश्रभावमनुभूयापि पुनस्तेनैव भावेन म्रियते, तदाश्रितां गतिं च 'याति' गच्छति । तथा मिश्रगुणस्थानस्थो जीवस्तिर्यत्रिकस्त्यानदित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचैर्गोत्रोद्योताप्रशस्तविहायोगतिस्त्रीवेदरूपपश्चविंशतिप्रकृतिबन्धव्यवच्छेदान्मनुष्यदेवायुषोरचन्धाच चतुःसप्ततेर्बन्धकः, तथाऽनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिफोदयव्यवच्छेदाद्देवमनुष्यतिर्यगानुपूर्व्यनुदयाच मिश्रोदयाच शतस्य वेदयिता, सप्तचत्वारिंशदधिकशतसत्ताको भवति ॥१७॥ इति तृतीयं गुणस्थानकम् । अथ चतुर्थमविरतसम्यग्दृष्टिगुणस्थानकं, तत्र प्रथम सम्यक्त्वमाप्तिस्वरूपमाह_ यथोक्तेषु च तत्वेषु, रुचिर्जीवस्य जायते । निसर्गादुपदेशाद्वा, सम्यक्त्वं हि तदुच्यते ॥१८॥ व्याख्या-'जीवस्य' भव्यस्य संज्ञिपञ्चेन्द्रियप्राणिनो 'यथोक्तेषु' यथावत्सर्ववित्प्रणीतेषु तस्वेषु' जीवादिपदार्थेषु 'निसर्गात ' पूर्वभवाभ्यासविशेषजनितात्यन्तनैर्मल्यगुणात्मकात्मस्वभावात् , 'उपदेशाद्वा' सद्गुरूपदिष्टशास्त्रश्रवणात् वा. या श्रद्धा रुचिरूपा भावना 'जायते' समुत्पद्यते, 'हि' स्फुटं तत्सम्यक्त्वं सम्यश्रद्धानलक्षणमुच्यते, यदाई-"रुचिर्जिनोक्ततरवेषु, सम्यक| श्रद्धानमुच्यते । जायते तनिसर्गेण, गुरोरधिगमेन वा ॥१॥" ॥१८॥ अथापिरतसम्यग्दृष्टित्वं यथा स्यात्तथाऽऽह १ या यथोक्तेषु प्र० २ तदाह प्र० ॥१२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78