Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ गुण० || 2 || HEH HEHEHEHEHEHE. JEH HEHE ICH JEH JE Z Ho च्युतः ॥ ११ ॥ समयादावलीषट्कं यावन्मिथ्यात्वभूतलम् । नासादयति जीवोऽयं, तावत्सास्वादनो भवेत् ॥ १२ ॥ युग्मम् ॥ व्याख्या - औपशमिकसम्यक्त्ववानयं जीवः शान्तानन्तानुबन्धिनाम् मध्यादेकस्मिन्नपि - क्रोधादावुदीर्णे सति आद्यमीपशमिकसम्यक्त्वं शैलमौलिकल्पम् - गिरिशिखरतुल्यम्, ततः परिच्युतो - भ्रष्टो ' यावन्मिथ्यात्वभूतलं नासादयति ' मिध्यात्वभूमिमण्डलं न प्राप्नोति तावत्समयादावलीषद्कान्तकालं सास्वादनगुणस्थानवर्त्ती भवति, यदाह + - उवसमअद्धाइ ठिओ, मिच्छमपत्तो तमेव गन्तुमणो । सम्मं आसायन्तो, सासायणमो मुणेयो || १ || आह- ननु व्यक्तमिथ्यात्वधीप्राप्तिरूपस्याद्यस्य मिश्रादीनां च गुणस्थानानामुत्तरोत्तरारोहरूपाणां गुणस्थानत्वं युक्तं, परं सम्यक्त्वात् प्रपातरूपस्य सास्वादनस्य गुणस्थानकत्वं कथमिति, अत्रोच्यते—मिथ्यात्वगुणस्थानमाश्रित्य सास्वादनस्याप्यूर्ध्वास्पदारोह एवास्ते (एवास्ति) यतो मिथ्यात्वगुणस्थानमभव्यानामपि भवति, सास्वादनं तु भव्यानामेत्र, भव्येष्वप्यपार्द्धपुद्गलपरावतीवशेषसंसाराणामेव, यदाह *अंतोमुहुत्तमित्तंपि, फासियं हुज्ज जेहि सम्मत्तं । तेसिं अवडूपुम्गल-परिअट्टो चैव संसारो ॥ १ ॥ इति सास्वादनस्यापि मिथ्यात्वगुणस्थानारोहरूपं गुणस्थानत्वं भवतीत्यदोषः। तथा सास्त्रादनस्थो जीवो मिथ्यात्वनरकत्रिकै केन्द्रियादिजातिचतुष्कस्थात्ररचतुष्कातपहुण्ड सेवार्त्तनपुंसकवेदरूपषोडशप्रकृतीनां + उपशमाद्धायां स्थितः मिथ्यात्वमप्राप्तः तदेव गन्तुमनाः । सम्यक्त्वमास्वादयन् सास्वादनो ज्ञातव्यः ॥ १ ॥ * अन्तर्मुहुर्त्तमात्रमपि स्पृष्टं भवेद्यैः सम्यत्तत्वम् । तेषामपार्श्वपुद्गलपरावर्त्त एव संसारः । १ । Jain Education International For Private & Personal Use Only Jeffo ६ ६ ६ ६ 9838963609636 वृत्तिः | ॥ ८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78