Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 298
________________ २६२ गण्डव्यूहसूत्रम् । [४०.७०संप्रस्थिता, या त्वमेवंरूपान् बोधिसत्त्वगुणानवतरसि । उदारसत्त्वाभिज्ञतया जम्बुद्वीपेऽमोघोऽस्माकं सत्त्वसंग्रहविक्रमो येषां नो विजिते त्वमेवंरूपज्ञानसमन्वागता उत्पन्ना । अथ खल्लु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषोऽनधं महामणिरत्नं ज्योतिःप्रभमणिरत्नविचित्रं च अन, वस्त्ररत्नं खेन पाणिना आदाय रत्नप्रभायाः श्रेष्ठिदारिकायाः प्रादात् । तत्परिवारस्य च 5 सर्वासां दारिकाणां प्रत्येकं नानावस्त्ररत्नानि प्रादात् , एवं चावोचत्-प्रतिगृहाण दारिके त्वमिदं वस्त्ररत्नम् , परिगृह्यात्मना परिभुव । अथ खलु रत्नप्रभा श्रेष्ठिदारिका सपरिवारा उभाभ्यां जानुभ्यां धरणितले प्रणिपत्य तद्वस्त्ररत्नं पाणिभ्यां परिगृह्य मूर्तिं कृत्वा प्रत्यवसृत्य तद्वस्त्ररत्नं प्रावृतवती । तत्परिवाराश्च सर्वा दारिकाः प्रत्येकं खानि वस्त्ररत्नानि प्रावृतवत्यः । सा तद्वस्त्ररत्नं प्रावृत्य राजानं सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं प्रदक्षिणमकरोत् साध खेन 10 दारिकापरिवारेण । तासां सर्वासां तेषु वस्त्ररत्नेषु सर्वनक्षत्रज्योतिर्बिम्बानि विद्योतमानान्यदर्शन् । तां जनकायो दृष्ट्वा एवमाह-शोभनस्तवायं दारिके कन्यापरिवारः । रात्रिदेवतेव ज्योतिर्गणप्रतिमण्डिता त्वमाभिः परिवृता अतीव भ्राजसे ॥ ___ अथ खलु सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-तल्कि मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन राजाभूत् सर्वधर्मनिर्नादच्छत्रमण्डल15 निर्घोषो नाम ? न खल्वेवं द्रष्टव्यम् । अयं स भगवान् वैरोचनस्तथागतोऽर्हन् सम्यक्सं बुद्धस्तेन कालेन तेन समयेन राजा अभूत् सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो नाम । स्यात्खल पुनस्ते कुलपुत्र-अन्या सा तेन कालेन तेन समयेन पद्मप्रभा नाम देव्यभूद्राज्ञो ज्योतिष्प्रभस्य भार्या सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो माता ? न खल्वेवं द्रष्टव्यम् । इयं सा मायादेवी तेन कालेन पमप्रभा नाम राजभार्या अभूत् , यया स उपपादुकः कुमारः 20 उत्सङ्गे प्रतिगृहीतः । स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्यः स तेन कालेन तेन समयेन ज्योतिष्प्रभो नाम राजा अभूत्सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञः पिता ? न खल्वेवं द्रष्टव्यम्। शुद्धोदनः स राजा तेन कालेन ज्योतिष्प्रभो नाम राजा अभूत् । स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्या सा तेन कालेन तेन समयेन रत्नप्रभा नाम श्रेष्ठिदारिका अभूत् । न खल्वेवं द्रष्टव्यम् । अहं सा तेन कालेन तेन समयेन रत्नप्रभा नाम श्रेष्ठिदारिका अभूवम् । स्यात्खलु 28 पुनस्ते कुलपुत्र एवम् अन्ये तेन कालेन तेन समयेन सत्त्वा अभूवन् , ये तत्र जम्बुद्वीपे उपपन्नाः राज्ञा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषेण चतुर्भिः संग्रहवस्तुभिः संगृहीताः? न खल्वेवं द्रष्टव्यम् । इमे ते बोधिसत्त्वाः सर्वे इहैव भगवतः पर्षन्मण्डलसमवसृता येऽनुत्तरायां सम्यक्संबोधौ अवैवायां बोधिसत्त्वभूमौ प्रतिष्ठापिताः । केचित्प्रथमायां भूमौ, केचिद् द्वितीयायां केचित्तृतीयायां केचिञ्चतुर्था भूमौ केचित्पश्चम्यां केचित्षठ्या केचित्सप्तम्यां 30 केचिदष्टम्यां केचिन्नवम्यां केचिद्दशम्यां बोधिसत्त्वभूमौ प्रतिष्ठापिताः । ये नानाप्रणिधानविमात्रताभिर्नानासर्वज्ञताप्रस्थानैर्नानासंभारैर्नानासमुद्रागमैर्नानानिर्याणैर्नानामार्गव्यूहशुद्धिभि 8339 B 136 . १Bधर्मप्रभा. .

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491