Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
५५ मञ्जुश्रीः। अथ खलु सुधनः श्रेष्ठिदारको दशोत्तरं नगरशतमटित्वा सुमनामुखदिक्प्रत्युद्देशं गत्वा अतिष्ठत् मञ्जश्रियं कुमारभूतं चिन्तयन् अनुविलोकयन् मञ्जश्रियः कुमारभूतस्य दर्शनमभिलषन् प्रार्थयमानः समवधानमाकाङ्क्षमाणः । अथ खलु मञ्जुश्रीः कुमारभूतो दशोत्तराद्योजनशतात्पाणिं प्रसार्य सुमनामुखनगरस्थितस्यैव सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठाप्य । एवमाह-साधु साधु कुलपुत्र, न शक्यं श्रद्धेन्द्रियविरहितैः खिन्नचित्तैः लीनचित्तैरनभ्यस्तप्रयोगैः प्रत्युदावळवीरित्वरगुणसंतुष्टैरेककुशलमूलतन्मयैश्चर्याप्रणिधानाभिनिर्हाराकुशलैः कल्याणमित्रापरिगृष्टीतैर्वृद्धासमन्वाहतैरियं धर्मता ज्ञातुम् , एष नयः, एष गोचरः, एप विहारो ज्ञातुं वा अवगाहयितुं वा अवतरितुं वा अधिमोक्तुं वा कल्पयितुं वा प्रत्यवगन्तुं वा प्रतिलब्धं वा इति ॥
10 स तं धर्मकथया संदर्शयित्वा समादाप्य समुत्तेज्य संप्रहर्पयित्वा असंख्येयधर्ममुखसमन्वागतं कृत्वा अनन्तज्ञानमहावभासप्राप्तं कृत्वा अपर्यन्तबोधिसत्त्वधारणीप्रतिभानसमाध्यभिज्ञज्ञानवेशाविष्टं कृत्वा समन्तभद्रचर्यामण्डलेऽवतारयित्वा स्वदेशे च प्रतिष्टाप्य सुधनस्य श्रेष्ठिदारकस्यान्तिकात प्रक्रान्तः ॥ ५३ ॥

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491