Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
S 548
5
10
15
20
४३६
30
गण्डव्यूहसूत्रम् ।
तत्र गतस्य इमि प्रणिधाना आमुखि सर्व भवेय्यु समग्रा । तांश्च अहं परिपूर्य अशेपान् सत्त्वहितं करि यावत लोके ॥ ५८ ॥
हि जिनमण्डल शोभनि रम्ये
पद्मवरे रुचिरे उपपन्नः । व्याकरणं अ तत्र लभेय्या
संमुखतो अभिताभजिनस्य ॥ ५९ ॥
व्याकरणं प्रतिलभ्य च तस्मिन् निर्मित कोटिशतेभिरनेकैः । सत्त्वहितानि बहून्यहु कुर्यां
दिक्षु दशखपि बुद्धिबलेन ॥ ६० ॥ भद्रचरिप्रणिधान पठित्वा
यत्कुशलं मयि संचित किंचित् । एकक्षणेन समृध्यतु सर्वं
तेन जगस्य शुभं प्रणिधानम् ॥ ६९ । भद्रचरिं परिणाम्य यदाप्तं पुण्यमनन्तमतीव विशिष्टम् ।
तेन जगद्व्यसनौघनिमग्नं
गमाः,
यात्वमिताभपुरं वरमेव ॥ ६२ ॥ इदमवोचद्भगवानात्तमनाः । सुधनः श्रेष्ठिदारकस्ते च बोधिसत्त्वा आर्यमञ्जुश्री पूर्वते च भिक्षवः आर्यमञ्जुश्रीपरिपाचिताः, ते च आर्यमैत्रेयपूर्वंगमाः सर्वभद्रकल्पिका बोधिसत्त्वाः, ते चार्यसमन्तभद्र बोधिसत्त्वप्रमुखा यौवराज्याभिषिक्ताः परमाणुरजःसमा महाबोधिसत्त्वा नानालोकधातुसंनिपतिताः, ते चार्यशारिपुत्रमौद्गल्यायनप्रमुखा महाश्रावकाः, 25 सा च सर्वावती पर्षत्, सदेवमानुषासुरगन्धर्वश्च लोको भगवतः समन्तभद्रस्य बोधिसत्त्वस्य भाषितमभ्यनन्दन्निति ॥
[ ५६.५८
आर्यगण्डव्यूहान्महाधर्मपर्यायाद्यथालब्धः सुधनकल्याणमित्र पर्युपासनचर्यैकदेशः आर्यगण्डव्यूहो महायानसूत्ररत्नराजः समाप्तः ॥
*
* * *
*
ये धर्मा हेतुप्रभावा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोधो एवं वादी महाश्रमणः ॥ सहस्राणि द्वादश ॥
-----
1 B transposes 62 and 61.

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491