Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 473
________________ ५६ समन्तभद्रचर्याप्रणिधानम् । लाभ सुलब्ध सुजीवितु तेपां स्वागत ते इमु मानुप जन्म । यादृश सो हि समन्ततभद्र स्तेऽपि तथा नचिरेण भवन्ति ॥ ५० ॥ पापक पञ्च अनन्तरियाणि येन अज्ञानवशेन कृतानि । सो इमु भद्रचार भणमानः क्षिा परिक्षयु नेति' अशेपम् ॥ ५१ ॥ ज्ञानतु रूपतु लक्षणतश्च वर्णतु गोत्रतु भोतिरुपेतः । तीर्थिकमारगणेभिरधृष्यः पूजितु भोति स सर्वत्रिलोके ॥ ५२ ।। क्षिा स गच्छति बोधिद्रुमेन्द्र गत्व निषीदति सत्त्वहिताय । बुध्यति बोधि प्रवर्तयि चक्रं धर्षति मारु ससैन्यकु सर्वम् ॥ ५३ ॥ यो इमु भद्रचरिप्रणिधानं धारयि वाचयि देशयितो वा । बुद्ध विजानति योऽत्र विपाको ___ वोधि विशिष्ट म काङ्क्ष जनेथ ॥ ५४॥ मञ्जशिरी यथ जानति शूरः सो च समन्ततभद्र तथैव । तेषु अहं अनुशिक्षयमाणो ___ नामयमी कुशलं इमु सर्वम् ॥ ५५ ॥ सर्वत्रियध्वगतेभि जिनेभि र्या परिणामन वर्णित अग्रा । ताय अहं कुशलं इमु सर्व नामयमी वरभद्रचरीये ॥ ५६ ॥ कालक्रियां च अहं करमाणो __ आवरणान् विनिवर्तिय सर्वान् । संमुख पश्यिय तं अमिताभ तं च सुखावतिक्षेत्र व्रजेयम् ॥ ५७ ॥ २ भोति.

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491