Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 457
________________ B211 -५६.०] ५६ समन्तभद्रचर्याप्रणिधानम्। ४२१ विशुध्यन्ति स्म धर्मनलिनीव्यूहबुद्धक्षेत्रविशुद्ध्या । सर्ववुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वकायचित्तप्रह्लादनप्राप्ततया । सर्ववुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वरत्नमयसंस्थानतया । सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वधातुलक्षणानुव्यञ्जनप्रतिमण्डितसंस्थानतया । सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वव्यूहालंकारमेघसंस्थानतया । सर्ववुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वधात्वन्योन्यमैत्रहितचित्ताव्यापन्नचित्तसंस्थानतया । सर्ववुद्धक्षेत्राणि विशुध्यन्ति । स्म बोधिमण्डालंकारव्यूहसंस्थानतया । सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वयुद्धानुस्मृतिमनसिकारप्रयुक्तसंस्थानंतया । इमानि दश पूर्वनिमित्तानि प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनाय ।। अपरे दश महावभासाः प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनपूर्वनिमित्तम् । कतमे दश ? । यदुत सर्वलोकधातुपरमाणुरजःसु एकैकस्मिन् परमाणु- 10 रजसि सर्वतथागतजालानि विद्योतयन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वबुद्धप्रभामण्डलमेघा निश्चर्य अनेकवर्णा नानावर्णा अनेकशतसहस्रवर्णाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वरत्नमेघाः सर्वतथागतप्रतिभासविज्ञपनान्निश्चरित्वा सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतार्चिश्चक्रमण्डलमेघा निश्चरित्वा सर्वधर्मधातुं 18 8 582 स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वगन्धपुष्पमाल्यविलेपनधूपमेघा निश्चरित्वा समन्तभद्रस्य बोधिसत्त्वस्य सर्वगुणधर्मसमुद्रमेघान्निगर्जमाणा दशदिक्सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वचन्द्रसूर्यज्योतिर्मेघा निश्चरित्वा समन्तभद्रवोधिसत्त्वप्रभा प्रमुञ्चमानाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वसत्त्वकायसंस्थानप्रदीपमेघा 20 निश्चरित्वा बुद्धरश्मिवत्प्रभासमानाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतकायप्रतिभासमणिरत्नविग्रहमेघा निश्चरित्वा दशसु दिक्षु सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतकायसंस्थानरश्मिविग्रहमेघा निश्चरित्वा सर्वबुद्धाधिष्ठानप्रणिधानमेघानभिप्रवर्षमाणाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वरूप-25 गतवर्णावभासा बोधिसत्त्वकायप्रतिभासमेघसमुद्राः सर्वसत्त्वनिर्माणकार्यप्रयोगाः सर्वसत्त्वसर्वाभिप्रायपरिपूरिनिष्पादना निश्चरित्वा सर्वधर्मधातुं स्फरन्ति स्म । इमे दश महावभासाः प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य दर्शनपूर्वनिमित्तम् ॥ अथ खल्ल सुधनः श्रेष्ठिदारक इमान् दश पूर्वनिमित्तावभासान् दृष्ट्वा समन्तभद्रस्य बोधिसत्त्वस्य दर्शनावकाशप्रतिलब्धः खकुशलमूलबलोपस्तब्धः सर्वतथागताधिष्ठानसर्व-30 बुद्धधर्मावभाससंजातः समन्तभद्रबोधिसत्त्वप्रणिधानाविष्टः सर्वतथागतगोचराभिमुखः उदारबोधिसत्त्वगोचरनिश्चयबलाधानप्राप्तः समन्तभद्रबोधिसत्त्वदर्शनसर्वज्ञताप्रभालाभसंज्ञी समन्त

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491