Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 461
________________ ४२३ 5585 -५६.०] ५६ समन्तभद्रचर्याप्रणिधानम्। तथागतान् धर्मचक्रप्रवर्तनायाध्येपमाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वकामधातुदेवेन्द्रकायमेघान्निश्चर्य सर्वतथागतधर्मचक्राणि संप्रतीच्छमानानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् प्रतिचित्तक्षणं सर्ववुद्धक्षेत्रपरमाणुरजःसमान् त्र्यध्वपर्यापन्नसर्ववुद्धक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा अलयनानामत्राणानामप्रतिशरणानां सत्वानां लयनत्राणप्रतिशरणभूतानपश्यत् । सर्वरोमविवरेभ्य । एकैकस्माद्रोमविवरात् प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वबुद्धोत्पादबोधिसत्त्वपर्पन्मडलपरिपूर्णपरिशुद्धक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा उदाराधिमुक्तिकानां सत्त्वानां विशुद्धये वर्तमानानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्ववुद्धक्षेत्रपरमाणुरजःसमान् विशुद्धसंक्लिष्टक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा संक्लिष्टानां सत्त्वानां विशुद्धये संवर्तमानानपश्यत् । 10 सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्ववुद्धक्षेत्रपरमाणुरजःसमान् संक्लिष्टचित्तविशुद्धक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा एकान्तसंक्लिष्टानां विशुद्धये संवर्तमानानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्व- बुद्धक्षेत्रपरमाणुरजःसमान् सर्वबोधिसत्त्वकायमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा सर्वसत्त्वचर्यामनुवर्तमानाननुत्तरायां सम्यक्संबोधों सर्वसत्त्वानां परिपाचय- 15 मानानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्वलोकधातुपरमाणुरजःसमान् बोधिसत्त्वकायमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा सर्वसत्त्वकुशलमूलविवर्धनतायै सर्ववुद्धनामान्युदीरयमाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्ववुद्धक्षेत्रपरमाणुरजःसमान् बोधिसत्त्वकायमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा सर्वबुद्धक्षेत्रप्रसरेणु प्रथमचित्तोत्पादमुपादाय सर्ववोधिसत्त्वानां 20 सर्वकुशलमूलाभिनिर्हारमुपसंहरमाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् बोधिसत्त्वमेघान्निश्चरित्वा सर्वबुद्धक्षेत्रेषु एकैकस्मिन् बुद्धक्षेत्रे समन्तभद्रवोधिसत्त्वचर्याविशुद्धये सर्ववोधिसत्त्वप्रणिधानसागरानभिद्योतयमानानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वसत्त्वाभिप्रायपरिपूरणान् सर्वज्ञतासमुदागमप्रीतिवेगविवर्धनान् समन्तभद्रवोधिसत्त्वचर्यामेघान्निश्चर्य अभिप्रवर्ष- 25 माणानपश्यत् । स तस्य सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वबुद्धक्षेत्राभिसंबोधिसंदर्शनान् सर्वज्ञतासमुदागममहाधर्मवेगविवर्धनानभिसंबोधिमेघान्निश्चरमाणानपश्यत् ॥ अथ खलु सुधनः श्रेष्ठिदारकः समन्तभद्रस्य बोधिसत्त्वस्य इदमृद्धिविषयविकुर्वितं दृष्ट्वा हृष्टः तुष्टः उदग्रः आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भूयस्या मात्रया समन्त-30 भद्रस्य बोधिसत्त्वस्य कायमुपनिध्यायन् अद्राक्षीत् समन्तभद्रस्य बोधिसत्त्वस्य एकैकस्मादङ्गा- देकैकाङ्गविभक्तितः एकैकस्माच्छरीरावयवात् एकैकस्याः शरीरावयवविभक्तेः एकैकस्मादङ्ग B213

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491