Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
गण्डव्यूहसूत्रम् ।
[५६.०माणुरजःसमास्त्यागा महात्यागाः कृताः, अत्यर्थत्यागाः कृताः सर्वज्ञताधर्मानभिप्रार्थयता । एककस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यात्मभावाः परित्यक्ताः, महाराज्यानि च परित्यक्तानि, ग्रामनगरनिगमजनपदराष्ट्रराजधान्यः परित्यक्ताः, प्रियमनापा दुस्त्यजाः परिवारसंघाः परिलताः, पुत्रदुहितृभार्याः परित्यक्ताः । स्वशरीरमांसानि परित्यक्तानि, खकायेभ्यो रुधिर 5 याचनकेभ्यः परित्यक्तम् , अस्थिमज्जाः परित्यक्ताः । अङ्गप्रत्यङ्गानि परित्यक्तानि । कर्णनासाः परित्यक्ताः। चशूपि परित्यक्तानि । स्वमुखेभ्यो जिह्वेन्द्रियाणि परित्यक्तानि बुद्धज्ञानावेक्षया कायजीवितनिरपेक्षेण । एकैकस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यवुद्धक्षेत्रपरमाणुरजःसमानि खशिरांसि परित्यक्तानि स्त्रकायेभ्यः सर्वलोकाभ्युद्गतमनुत्तरसर्वज्ञताशीर्षमभिप्रार्थयता।
यथा च एकैकस्मिन् महाकल्प, तथा अनभिलाप्यानभिलाप्यवुद्धक्षेत्रपरमाणुरजःसमेषु 10 महाकल्पसागरेषु । एकैकस्मिंश्च महाकल्पेऽनमिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथा
गताः परमेश्वरभूतेन सत्कृता गुरुकृता मानिताः पूजिताः, चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादिताः । तेषां च अस्मिंस्तथागतानां शासने प्रबजित्वा सर्ववुद्धानुशासनीषु प्रतिपन्नः, शासनं च मे तेषां संधारितम् ।।
नाभिजानामि कुलपुत्र तावद्भिः कल्पसमुद्रैरेकचित्तोत्पादमपि तथागतशासने 15 विलोपमुत्पादयितुं नाभिजानामि । तावद्भिः कल्पसमुद्ररेकचित्तोत्पादमपि प्रतिघसहगतमुत्पादयितुमात्मनहचित्तं वा आत्मग्रहपरिग्रहचित्तं वा आत्मपरनानात्वचित्तं वा बोधिमार्गविप्रवासचित्तं वा संसारसंवासपरिखेदचित्तं वा अबलीनचित्तं वा आवरणसंमोहचित्तं वा उत्पादयितुमन्यत्र अपराजितज्ञानदुर्योधनगर्भवोधिचित्तात् सर्वज्ञतासंभारेषु । इति हि कुलपुत्र
सर्वकल्पसागराः क्षयं व्रजेयुः तानिर्दिशतो ये मम पूर्वयोगसंबुद्धक्षेत्रपरिशुद्धिप्रयोगाः, ये मम 20 महाकरुणाप्रतिलव्धचित्तस्य सर्वपरित्राणपरिपाचनपरिशोधनप्रयोगाः । एवं ये बुद्धपूजोप
स्थानप्रयोगाः, ये सद्धर्मपर्येष्टिहेतोगुरुशुश्रूपाप्रयोगाः, ये सद्धर्मपरिग्रहहेतोरात्मभावपरित्यागप्रयोगाः, ये सद्धर्मारक्षणनिदानाः स्वजीवितपरित्यागप्रयोगाः, तावद्भयो मे कुलपुत्र धर्मसमुद्रेभ्यो न किंचिदेकपदव्यञ्जनमपि यन्न चक्रवर्तिराज्यपरित्यागेन क्रीतम् , यन्नास्ति सर्वास्तिपरित्यागेन क्रीतं सर्वसत्त्वपरित्राणप्रयुक्तेन वसंततिचित्तनिध्यप्तिप्रयुक्तेन अभिमुखपरधर्मसंप्रा25 पणप्रयुक्तेन सर्वलौकिकज्ञानालोकप्रभावनाप्रयुक्तेन सर्वलोकोत्तरज्ञानप्रभावनाप्रयुक्तेन सर्व
सत्त्वसंसारसुखसंजननप्रयुक्तेन सर्वतथागतगुणसंवर्णनगुणप्रयुक्तेन । एवमनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः कल्पसागराः क्षयं व्रजेयुर्मम खपूर्वयोगसंपदं निर्दिशतः ॥
तेन मया कुलपुत्र अनेन एवंरूपेण संभारबलेन मुलहेतूपचयबलेन उदाराधिमुक्तिवलेन गुणप्रतिपत्तिबलेन सर्वधर्मयथावन्निध्यप्तिबलेन प्रज्ञाचक्षुर्बलेन तथागताधिष्ठानबलेन B 215 30 महाप्रणिधानबलेन महाकरुणाबलेन सुपरिशोधिताभिज्ञाबलेन कल्याणमित्रपरिग्रहबलेन
अत्यन्तपरिशुद्धो धर्मकायः प्रतिलब्धः सर्वत्र्यध्वासंभिन्नः। अनुत्तरश्च रूपकायः परिशोधितः
१ खशरीराणि.
3540

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491