Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 445
________________ Sol4 614 -५४.१७८] ५४ मैत्रेयः। ४०९ मानम्, कचित्सुनिर्मितदेवराजभूतं सर्वबोधिसत्त्वनिर्माणव्यूहं देवपर्पदि संदर्शयमानन् , क्वचिद्वशवर्तिदेवराजभूतं सर्वधर्मवशवर्तितां देवानां संप्रकाशयमानम् , क्वचिन्मारत्वं कारयमाणम् , सर्वसंपत्त्यनित्यतां देवानां देशयमानम् , क्वचिदसुरेन्द्रभवनोपपन्नं सर्वमानमददपप्रहाणाय महाज्ञानसागरविगाहनाय धर्मज्ञानसागरविगाहनाय धर्मज्ञानमायाप्रतिलभाय असुरपर्षदि धर्म देशयमानमपश्यत् । क्वचित्कूटागारे यमलोकमद्राक्षीत् । तत्र मैत्रेयं वोषि-5 सत्त्वं प्रभया महानरकानवभास्य नरकोपपन्नानां सत्त्वानां सर्वनिरयदुःखं प्रशमयमानमद्राक्षीत् । कचित्कूटागारे प्रेतभवनमद्राक्षीत् । तत्र मैत्रेयं बोधिसत्त्वं प्रेतभवनोपपन्नानां सत्त्वानां विपुलमन्नपानमुपसंहृत्य क्षुत्पिपासां प्रशमयमानमद्राक्षीत् । क्वचिन्कूटागारे तिर्यग्योनौ विविधोपपत्यायतनविमात्रतया तिर्यग्योनिगतान् सत्त्वान् विनयन्तमद्राक्षीत् । कचित्कूटागारे महाराजिकदेवपर्षदि लोकपालानां धर्मं देशयमानमपश्यत् । कचिच्छत्रा- 10 देवराजपर्षदि कचित्सुयामदेवराजपर्षदि क्वचित्संतुपितदेवराजपर्पदि कचित्तुनिर्मितदेवराजपर्षदि क्वचिद्वशवर्तिदेवराजपर्षदि कचित्कूटागारे ब्रह्मेन्द्रपर्पदि मैत्रेयं बोधिसत्त्वं महाब्रह्मभूतं धर्म देशयमानमपश्यत् । क्वचिन्नागमहोरगपर्षदि कचिद्यक्षराक्षसपर्पदि कचिद्गन्धर्वकिन्नरपर्पदि कचिदसुरदानवेन्द्रपर्पदि क्वचिन्महोरेगेन्द्रपर्षदि क्वचिन्मनुष्येन्द्रपर्पदि कचित्कूटागारे देव- नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यपर्पदि मैत्रेयं बोधिसत्त्वं धर्म देशयमान-15 मपश्यत् । कचिच्छ्रावकपर्षदि कचित्प्रत्येकबुद्धपर्षदि कचिद्बोधिसत्त्वपर्पदि कचित्कूटागारे प्रथमचित्तोत्पादिकानामादिकर्मिकाणां बोधिसत्त्वानां मैत्रेयं बोधिसत्त्वं धर्म देशयमानमपश्यत्। कचिच्चर्याप्रतिपन्नानां कचित्क्षान्तिप्रतिलब्धानामविनिवर्तनीयानां कचिदेकजातिप्रतिबद्धानामभिषेकप्राप्तानां कचित्कूटागारे प्रथमभूमिस्थितानां वोधिसत्त्वानां भूमिवैशेपिकतां संवर्णयमानमपश्यत् । कचिद्यावद्दशभूमिस्थितैवोधिसत्त्वैः सह मैत्रेयं वोधिसत्त्वं सर्वभूमि-20 वैशेषिकतां संगायन्तमपश्यत् । क्वचित्सर्वपारमितापरिपूरयेऽप्रमाणतां क्वचित्सर्वशिक्षाभिमुखावतारसमतां वचित्समाधिमुखप्रवेशविस्तीर्णतां क्वचिद्विमोक्षनयगम्भीरतां कचिच्छान्तध्यानसमाधिसमापत्त्यभिज्ञाविषयस्फरणतां कचिद्बोधिसत्त्वचर्याविनयोपायमुखप्रवेशतां कचित्प्रणिधानाभिनिर्हारविस्तीर्णतां कचित्कूटागारे मैत्रेयं बोधिसत्त्वं चंक्रमाभियुक्त सभागचरितैर्बोधिसत्त्वैः साधं लोकहितक्रिया, विविधशिल्पस्थानशास्त्रविशेषां सर्वसत्त्वहितसुखावानोपसंहिततां 25 संगायमानमपश्यत् । कचिदेकजातिप्रतिबद्धर्बोधिसत्त्वैः सार्धं सर्वबुद्धज्ञानाभिपेकमुखं संगायन्तमपश्यत् । कचित्कूटागारे मैत्रेयं बोधिसत्त्वं चंक्रमाभियुक्तं वर्षशतसहस्रैरनिक्षिप्तधुरमपश्यत् । क्वचिदुद्देशस्वाध्यायप्रयुक्तं कचिद्धर्ममुखप्रत्यवेक्षणप्रयुक्तं कचिद्धर्मसंगायनप्रयुक्तं कचिंद्धर्मलेखनप्रयुक्तं कचिन्मैत्रीसमाधिसमापन्नं क्वचित्सर्वव्यानाप्रमाणानि समापन्नं कचिसर्वकृत्स्नायतनविमोक्षसमापन्नं कचित्कूटागारे बोधिसत्त्वाभिज्ञाभिनिर्हारप्रयोगसमाधि-30 समापन्नं मैत्रेयं बोधिसत्त्वमपश्यत् ।। १ Bom. क्वचित्" संगायन्तमपश्यत. गण्ड, ५२

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491