Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
४१६ गण्डन्यूहसूत्रम् ।
[५४.१७८ते तथागतप्रणिधिवैशारधवैशेपिकता ? अनुगता ते बोधिसत्त्वविमोक्षाचिन्त्यता ? अनुभूतं ते बोधिसत्त्वसमाधिप्रीतिमुखम् ? सुधन आह-दृष्टमार्य कल्याणमित्राधिष्ठानेन कल्याणमित्रप्रभावेण । अपि तु खलु आर्य को नामैप विमोक्षः ? मैत्रेय आह-सर्वत्र्यध्वारम्बणज्ञानप्रवेशासंमोपस्मृतिव्यूहगर्भो नाम कुलपुत्र एष विमोक्षः। ईदृशानां च कुलपुत्र विमोक्षाणामनभिला5 प्यानभिलाप्यानामेकजातिप्रतिबद्धो बोधिसत्त्वो लाभी । सुधन आह-क असौ आर्य व्यूहो गतः? मैत्रेयो वोधिसत्त्व आह-यत एवागतः। सुधन आह-कुत आगतः ? मैत्रेयो बोधिसत्त्व आह-वोधिसत्त्वज्ञानाधिष्ठानाभिनिहर्तरादागतः । तत्रैवाधिष्ठाने तिष्ठति। न क्वचिद्गतो नागतो न राशीभूतो न संचयभूतो न कूटस्थो न भावस्थो न भावस्थितो न देशस्थो न प्रदेशस्थः । तद्यथा कुलपुत्र नागानां मेघजालं न कायेन चित्तेन अभ्यन्तरीभूतं न संचयस्थितं न 10 संदृश्यते । नागचेतनावशेन अप्रमाणा वारिधाराः प्रमुञ्चति नागविषयाचिन्त्यतया । एवमेव कुलपुत्र ते व्यूहा नाध्यात्मगता न वहिर्धागता न च न संदृश्यन्ते, बोधिसत्त्वाधिष्ठानवशेन, तव च सुभाजनतया । तद्यथा कुलपुत्र मायाकारस्य सर्वमायागतविषयं संदर्शयमानस्य माया न कुतश्चिदागच्छन्ति न विगच्छन्ति न क्वचित्संक्रान्तिम् , संदृश्यते च
मन्त्रौषधिवलेन । एवमेव कुलपुत्र ते व्यूहा न क्वचिद्गता न कुतश्चिदागता न क्वचिद्राशीभूताः। S_625_15 संदृश्यन्ते च अचिन्त्यबोधिसत्त्वज्ञानमायासुशिक्षित्वात् पूर्वप्रणिधानाधिष्ठानज्ञानवशितया ।
सुधन आह-कियदूरादार्य आगच्छसि ? आह-अनागतगतिंगतः । कुलपुत्र बोधिसत्त्वानां गतिः अचलनास्थानगतिः । अनालयानिकेतगतिः । अच्युत्युपपत्तिगतिः । अस्थानसंक्रान्तिगतिः । अचलनानुत्थानगतिः। अनवेक्षानिकेतगतिः । अकर्मविपाकगतिः । अनुत्पादानिरोधगतिः । अनुच्छेदाशाश्वतगतिः । अपि तु कुलपुत्र महाकरुणागतिर्बोधिसत्त्वानां विनेय20 सत्त्वावेक्षणतया, महामैत्रीगतिर्बोधिसत्त्वानां दुःखितसत्त्वपरित्राणतया, शीलगतिबोधिसत्त्वानां
यथाशयोपपत्तितया, प्रणिधानगतिर्बोधिसत्त्वानां पूर्वाधिष्ठानेन, अभिज्ञागतिर्बोधिसत्त्वानां सर्वसुखसंदर्शनतया, अनभिसंस्कारगतिर्बोधिसत्त्वानां सर्वतथागतपादमूलानुच्चलनतया, अनायूहवियूहगतिर्बोधिसत्त्वानां कायचित्तासंप्रवणतया, प्रज्ञोपायगतिर्बोधिसत्त्वानां सत्त्वानुवर्तनतया, निर्माणसंदर्शनगतिर्बोधिसत्त्वानां प्रतिभासप्रतिबिम्बनिर्मितशरीरसमतया ॥ 25 अपि च कुलपुत्र यद्वदसि-कियरात्त्वमागच्छसीति । अहमस्मिन् कुलपुत्र आगच्छामि
जन्मभूमेर्मालदेभ्यो जनपदेभ्यः कुटिग्रामकात् । तत्र गोपालको नाम श्रेष्ठी । तं बुद्धधर्मेषु प्रतिष्ठाप्य जन्मभूमकानां च मनुष्याणां यथाभाजनतया धर्म देशयित्वा मातापितज्ञातिसंबन्धिनश्च ब्राह्मणगृहपतीन् महायाने समादाप्य ।सुधन आह—कतमा आर्य बोधिसत्त्वानां
जन्मभूमिः ? आह-दशेमाः कुलपुत्र बोधिसत्त्वानां जन्मभूमयः। कतमा दश ? यदुत 30 बोधिचित्तोत्पादो बोधिसत्त्वानां जन्मभूमिः । बोधिसत्त्वकुलजनक अध्याशयो बोधिसत्त्वानां
जन्मभूमिः। कल्याणमित्रकुले जनयिता....भूमिप्रतिष्ठानं बोधिसत्त्वानां जन्मभूमिः।पारमिता. कुले जनक....प्रणिधानामिनिस्रो बोधिसत्त्वानां जन्मभूमिः । अनुत्पत्तिकधर्मक्षान्तिकुले

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491