Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 448
________________ S 518 8 519 B 206 ધ્રુ [ ५४. १७८ प्रतिभासविज्ञप्तिं कचित्संक्लिष्टक्षेत्रप्रतिभासविज्ञप्तिं कचिद्विशुद्धक्षेत्रप्रतिभासविज्ञतिं कचि - तंश्चिष्टविशुद्धक्षेत्रप्रतिभासविज्ञप्तिं क्वचित्सर्वबुद्धैक लोकधातुप्रतिभासविज्ञप्तिं कचिद्बुद्धलोकधातुप्रतिभासविज्ञप्तिं कचित्परीत्त लोकधातु प्रविभासविज्ञप्तिं क्वचिन्महद्गत लोकधातुप्रतिभासविज्ञप्तिं क्वचित्सूक्ष्मलोकधातुप्रतिभासविज्ञप्तिं कचिदुदारलोकधातुप्रतिभासविज्ञप्तिं क्वचिदिन्द्र5] जालप्रवेशलोक धातुप्रतिभासविज्ञप्तिं क्वचिद्व्यत्यस्तलोकधातुप्रतिभासविज्ञप्तिं क्वचिदधमूलोकधातुप्रतिभासविज्ञप्तिं कचित्समधरणीतलप्रवेशलोकधातुप्रतिभासविज्ञप्तिं कचिन्नरकतिर्यक्प्रेतावभासलोकधातुप्रतिभासविज्ञप्तिं क्वचिद्देवमनुष्याकीर्णलोकधातुप्रतिभासविज्ञप्तिमद्राक्षीत् । तेषु च चंक्रमेषु निपद्य स्वासनेषु च असंख्येयान् वोधिसत्त्वान् नाना कार्यप्रयुक्तानपश्यत् । कांश्चिच्चंक्रम्यमाणान् कांश्चिद्व्यायच्छतः कांश्चिद्विपश्यतः कांश्चिन्महाकरुणया 10 स्फरमाणान् कांश्चिद्विविधान् शास्त्रनयान् लोकार्थसंप्रयुक्तानभिनिर्हरमाणान् कांश्चिदुद्दिशतः कांश्चित्खाध्यायमानान् कांश्चिल्लिखितः कांश्चित्परिप्रश्नयतः कांश्चित्रिस्कन्धदेशनापरिणमनाभियुक्तान् कांश्चित्प्रणिधानान्यभिनिर्हरमाणान् ॥ गण्डव्यूहसूत्रम् । तेभ्यश्च स्तम्भेभ्यः सर्वमणिराजप्रभाजालानि निश्चरन्ति व्यपश्यत् । क्वचिन्नीलवर्णानि क्वचित्पीतवर्णानि कचिल्लोहितवर्णानि कचिदवदातवर्णानि कचित्स्फटिकवर्णानि 15 क्वचित्तपनीयवर्णानि क्वचिदिन्द्रनीलवर्णानि क्वचिदिन्द्रायुधवर्णानि कचिज्जाम्बूनदसुवर्णवर्णानि कचित्सर्वप्रभासवर्णानि कायचित्तप्रीतिसंजननपरमनयनाभिरामाणि । तांश्च जाम्बूनदसुवर्णवर्णकदलीस्तम्भान् सर्वरत्नविग्रहांश्च पुष्पमेघावलम्बितपाणीनद्राक्षीत् । माल्यदामपाणीन् छत्रध्वजपताकापाणीन् गन्धधूपविलेपनपाणीन् विविधरत्नविचित्रसुवर्णसूत्रपाणीन् विविधमुक्ताहारपाणीन् नानारत्नहारपाणीन् सर्वव्यूह परिगृहीतपाणीन् । कांश्चिदवनतचूडा20 मणिमकुटान् अनिमिषनयनान् कृताञ्जलिपुटान् नमस्यतोऽपश्यत् । तेभ्यश्च मुक्ताहारेभ्यः सर्वगन्धपरिभाविताष्टाङ्गोपेतसूक्ष्मजलधरान् प्रस्रवमाणानपश्यत् । तेभ्यश्च वैडूर्यमणिहारजालेभ्यो दीर्घपङ्कीन् क्षरन्तीनपश्यत् । तानि च रत्नच्छत्राणि सर्वालंकारव्यूहोपशोभितान्यपश्यत् । तां च रत्नघण्टाकिङ्किणीजालपट्टदामकलापमणिशलाकाविचित्रमणिरत्नकोशसमलंकृतगर्भामपश्यत् । ताभ्यश्च पुष्किरिणीभ्योऽसंख्येयानि रत्नपद्मोत्पल कुमुदपुण्डरीकान्यभ्यु25 द्गतान्यपश्यत् । कानिचिद्वितस्तिप्रमाणमात्राणि कानिचिद्व्यामप्रमाणमात्राणि कानिचिच्छकटचक्रप्रमाणमात्राणि । तेषु च नानारूपान् व्यूहानपश्यत् । यदुत स्त्रीरूपान् पुरुषरूपान् दारकरूपान् दारिकारूपान् शक्ररूपान् ब्रह्मरूपान् लोकपालरूपान् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरूपान् श्रावकप्रत्येकबुद्ध बोधिसत्त्वरूपान् सर्वजगद्रूपसंस्थानशरीरान् विचित्रनानावर्णान् कृताञ्जलिपुटानवनतकायान्नमस्यतोऽपश्यत् । द्वात्रिंशन्महापुरुषलक्षण30 समलंकृतकायांश्च तथागतविग्रहान् पर्यङ्कनिषण्णानपश्यत् ॥ या च सा वैडूर्यतलाष्टापदमहापृथिवी, तत्र एकैकतोऽष्टापदादचिन्त्याः प्रतिभासत्रिज्ञप्तीरपश्यत् । कचित्क्षेत्रप्रतिभासविज्ञप्तिं कचिद्बुद्धप्रतिभासविज्ञप्तिम् । यावन्तश्च तेषु १ S कुमारीविग्रहान्.

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491