Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 444
________________ B203 8512 ४०८ गण्डव्यूहसूत्रम् । [५४.१७८असंख्येयरत्नसोपानालंकारम् असंख्येयरत्नवामकविरचनालंकारम् असंख्येयविचित्ररत्ननिचितभूम्यलंकारम् असंख्येयमहामणिरत्नप्रभाप्रमुक्तालंकारम् असंख्येयसर्वरत्नव्यूहालंकारम् असंख्येयगुणवर्णसमुदितालंकारम् । तस्य च महाकूटागारस्य अभ्यन्तरे तदन्यानि कूटागारशतसहस्राण्येवंरूपव्यूहालंकृतान्येवापश्यत् असंख्येयरत्नच्छत्रध्वजपताकालंकाराणि याव6 दसंख्येयगुणवर्णसमुदितालंकाराणि च । तानि कूटागाराणि विपुलविस्तीर्णान्यप्रमाणाकाशकोशभूतान्यपश्यत् समन्तात् सुविभक्तानि । ते चास्य कूटागारव्यूहा अन्योन्यासंभिन्ना अन्योन्यामैत्रीभूता अन्योन्यासंकीर्णाः प्रतिभासयोगेन आभासमगमन् एकस्मिन्नारम्बणे । यथा च एकस्मिन्नारम्बणे, तथा शेषसर्वारम्बणेपु ॥ __ अथ खलु सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य इदमेवं10 रूपमचिन्त्यविषयविकुर्वितं दृष्ट्वा अतुलप्रीतिवेगविवर्धितेन महाहर्षप्रामोद्येन अभिष्यन्दितकायचित्तः सर्वसंज्ञागतविधूतमानसः सर्वावरणविवर्तितचित्तः सर्वमोहविगतोऽसंप्रमोषदिव्यनयनः सर्वेशव्दासङ्गस्मृतिविज्ञप्तिश्रोत्रः सर्वमनसिकारविक्षेपविगतोऽनावरणविमोक्षनयनानुसरणबुद्धिः सर्वदिक्स्रोतोभिमुखेन कायप्रशमेन सर्वारम्बणानावरणसंप्रेषितचक्षुः सर्वत्रानुगतेन अभिनिहरबलेन सर्वशरीरेण प्रणिपतितः ॥ 15 समनन्तरप्रणिपतितमात्रश्च सुधनः श्रेष्ठिदारको मैत्रयस्य बोधिसत्त्वस्य अधिष्ठानबलेन सर्वेषु तेषु कूटागारेश्वभ्यन्तरप्रविष्टमात्मानं संजानीते स्म । तेषु च सर्वकूटागारेषु विविधवैमात्र्यगतान्यचिन्त्यविषयविकुर्वितान्यद्राक्षीत् । कचित्कूटागारे यत्र मैत्रेयेण बोधिसत्त्वेन प्रथमं प्रणिधानचित्तमुत्पादितमनुत्तरायां सम्यक्संबोधौ, यन्नामगोत्रोपपन्नेन येन कुशलमूलेन यया समादापनया येन कल्याणमित्रसंचोदनेन यदायुःप्रमाणेन यन्नामके कल्पे यत्रतथागते 20 यद्यूहे यादृश्यां पर्षदि यादृशेन प्रणिधानविशेपाभिनिहारेण, तत्सर्वमद्राक्षीत् , संजानीते अनुसरति । यावच्च तेषां सत्त्वानां तस्य च तथागतस्य तेन समयेनायुःप्रमाणमभूत् , तावत्काले तस्य तथागतस्य पादमूलगतमात्मानं संजानीते स्म । तां च सर्वां क्रियामपश्यत् ॥ क्वचित्कूटागारे यत्र मैत्रेयेण बोधिसत्त्वेन प्रथमो मैत्रसमाधिः प्रतिलब्धः, यत उपादाय अस्य मैत्रेय इति संज्ञोदपादि तदद्राक्षीत् । क्वचिद्यत्र चर्याः चीर्णाः, क्वचिद्यत्र पारमिताः 8 613_26 परिपूरिताः, क्वचिद्यत्र क्षान्तिरवतीर्णा, कचिद्यत्र भूमिरवक्रान्ता, कचिद्यत्र बुद्धक्षेत्रव्यूहाः परिगृहीताः, कचिद्यत्र तथागतशासनं संधारितम् , क्वचिद्यत्र अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, कचिद्यत्र व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, यथा व्याकृतो येन व्याकृतो यावञ्चिरेण च व्याकृतस्तत्सर्वमद्राक्षीत् । स कचित्कूटागारे मैत्रेयं बोधिसत्त्वं चक्रवर्तिराजभूतं सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयमानमपश्यत् । कचिल्लोकपालभूतं सर्वलोकहितसुखं 30 सत्त्वानामुपसंहरमाणम् , कचिच्छक्रभूतं कामगुणरतिं सत्त्वानां विनिवर्तयमानम् , कधिब्रह्मभूतं ध्यानाप्रमाणरतिं सत्त्वानां संवर्णयमानम् , कचित्सुयामदेवाधिपतिभूतमप्रमाणगुणान् सत्त्वानां संवर्णयमानम्, कचित् संतुषितदेवेश्वरभूतमेकजातिप्रतिबद्धबोधिसत्त्वगुणानुद्भावय

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491