Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 437
________________ -५४.१७८] ५४ मैत्रेयः। स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं वोधिचित्तोत्पाददिव्यजाम्बूनदसुवर्णेन । तद्यथा कुलपुत्र नागमण्डलसिद्ध आहितुण्डिकः सर्वनागोरगान् वशे स्थापयति, एवमेव सर्वज्ञताचित्तोत्पादप्रतिपत्तिनागमण्डलसिद्धो बोधिसत्त्वाहितुण्डिकः सर्वक्लेशनागोरगान् वशे स्थापयति । तद्यथा कुलपुत्र प्रहरणगृहीतः शूरो दुर्धर्षो भवति शत्रुमण्डलेन, एवमेव सर्वज्ञताचित्तोत्पादप्रहरणगृहीतो बोधिसत्त्वो दुर्धर्पो भवति सर्वक्लेशशत्रुमण्डलेन । तद्यथा कुलपुत्र 5 s 501 दिव्योरगसारचन्दनस्य एकचूर्णधारणं साहस्र लोकधातुं गन्धेन स्फरति, कर्पप्रमाणं सर्वत्रिसाहस्र लोकधातुरत्नपरिपूर्णेन मूल्यं न क्षमते, एवमेव सर्वज्ञताचित्तोत्पाददिव्योरगसारचन्दनस्यैकाध्याशयधातुः सर्वधर्मधातुं गुणगन्धेन स्फरति, सर्वशैक्षाशैक्षप्रत्येकवुद्धचित्तानि चाभिभवति । तद्यथा कुलपुत्र हिमवच्चन्दनं नाम महाचन्दनरत्नं सर्वदाहं प्रशमयति, सर्व चाश्रयं शीतलीकरोति, एवमेव सर्वज्ञताचित्तोत्पादहिमवञ्चन्दनरत्नं सर्वक्लेशसंकल्परागदोपमोह- 10 दाहं प्रशमयति, ज्ञानाश्रयं च प्रह्लादयति । तद्यथा कुलपुत्र ये सुमेरु पर्वतराजमुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सुवर्णवर्णाः, एवमेव ये सर्वज्ञताचित्तोत्पादसमान् बोधिसत्त्वानुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सर्वज्ञतावर्णाः । तद्यथा कुलपुत्र यः पारियात्रकस्य कोविदारस्य च्छविगन्धः प्रवाति, स सर्वजम्बुद्वीपे सर्ववार्पिकाजातिसुमनादीनां पुष्पजातीनां न संविद्यते, एवमेव यो बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादबीज-15 प्रणिधिवृक्षगुणज्ञानत्वचो गन्धः प्रवाति, स सर्वप्रत्यवरकुशलमूलानां सर्वश्रावकप्रत्येकबुद्धवार्षिकाजातिसुमनानामनात्रवशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानां न संविद्यते । तद्यथा कुलपुत्र पारियात्रकस्य कोविदारस्य शुङ्गीभूतस्य वेदितव्यं वहूनां पुष्पशतसहस्राणामायद्वारं भविष्यतीति, एवमेव सर्वज्ञताचित्तोत्पादपारियात्रकवृक्षस्य कुशलमूलशुङ्गीभूतस्य वेदितव्यमसंख्येयानां देवमनुष्याणां सास्रवानासवबोधिकुसुमायद्वारं भविष्यतीति । तद्यथा 20 कुलपुत्र यः एकदिवसपरिभावितस्य पारियात्रकुसुमैर्वस्त्रस्य तैलस्य वा गन्धः प्रवाति, स दिवसशतसहस्रपरिभावितस्य चम्पकवार्षिकासुमनाभिवस्त्रस्य वा तैलस्य वा न संविद्यते। एवमेव य एकजन्मपरिभावितस्य सर्वज्ञताचित्तसंतानस्य बोधिसत्त्वगुणज्ञानगन्धो दशसु दिक्षु सर्वबुद्धपादमूलेषु प्रवाति, स कल्पशतसहस्रपरिभावितानां सर्वश्रावकप्रत्येकबुद्धचित्तानामनास्रवकुशलधर्मज्ञानगन्धो न संविद्यते । तद्यथा कुलपुत्र अस्ति नालीकेरी नाम 25 वृक्षजातिः उद्यतके समुद्रे संभूता । सा मूलत उपादाय यावत्पुष्पफलपर्यन्तात्सर्वकालं 502 सर्वसत्त्वानां न कदाचिन्नोपजीव्या भवति । एवमेव महाकरुणाप्रणिधिमूलसंजातो बोधिसत्त्वस्य प्रथमसर्वज्ञताचित्तोत्पादो यावत्सद्धर्मस्थितिपर्यवसानात् सदेवकस्य लोकस्य न कदाचिन्नोपजीव्यो भवति । तद्यथा कुलपुत्र अस्ति हाटकप्रभासं नाम रसजातम् । तस्य एकपलं लोहपलसहस्रं वर्णीकरोति । न च तद्रसपलं शक्यं तेन लोहपलसहस्रेण पर्यादातुं न लोहीकर्तुम् । 30 एवमेव एकसर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरण १ B नाडीकरी. गण्ड.५१

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491