________________
-५४.१७८]
५४ मैत्रेयः। स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं वोधिचित्तोत्पाददिव्यजाम्बूनदसुवर्णेन । तद्यथा कुलपुत्र नागमण्डलसिद्ध आहितुण्डिकः सर्वनागोरगान् वशे स्थापयति, एवमेव सर्वज्ञताचित्तोत्पादप्रतिपत्तिनागमण्डलसिद्धो बोधिसत्त्वाहितुण्डिकः सर्वक्लेशनागोरगान् वशे स्थापयति । तद्यथा कुलपुत्र प्रहरणगृहीतः शूरो दुर्धर्षो भवति शत्रुमण्डलेन, एवमेव सर्वज्ञताचित्तोत्पादप्रहरणगृहीतो बोधिसत्त्वो दुर्धर्पो भवति सर्वक्लेशशत्रुमण्डलेन । तद्यथा कुलपुत्र 5 s 501 दिव्योरगसारचन्दनस्य एकचूर्णधारणं साहस्र लोकधातुं गन्धेन स्फरति, कर्पप्रमाणं सर्वत्रिसाहस्र लोकधातुरत्नपरिपूर्णेन मूल्यं न क्षमते, एवमेव सर्वज्ञताचित्तोत्पाददिव्योरगसारचन्दनस्यैकाध्याशयधातुः सर्वधर्मधातुं गुणगन्धेन स्फरति, सर्वशैक्षाशैक्षप्रत्येकवुद्धचित्तानि चाभिभवति । तद्यथा कुलपुत्र हिमवच्चन्दनं नाम महाचन्दनरत्नं सर्वदाहं प्रशमयति, सर्व चाश्रयं शीतलीकरोति, एवमेव सर्वज्ञताचित्तोत्पादहिमवञ्चन्दनरत्नं सर्वक्लेशसंकल्परागदोपमोह- 10 दाहं प्रशमयति, ज्ञानाश्रयं च प्रह्लादयति । तद्यथा कुलपुत्र ये सुमेरु पर्वतराजमुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सुवर्णवर्णाः, एवमेव ये सर्वज्ञताचित्तोत्पादसमान् बोधिसत्त्वानुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सर्वज्ञतावर्णाः । तद्यथा कुलपुत्र यः पारियात्रकस्य कोविदारस्य च्छविगन्धः प्रवाति, स सर्वजम्बुद्वीपे सर्ववार्पिकाजातिसुमनादीनां पुष्पजातीनां न संविद्यते, एवमेव यो बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादबीज-15 प्रणिधिवृक्षगुणज्ञानत्वचो गन्धः प्रवाति, स सर्वप्रत्यवरकुशलमूलानां सर्वश्रावकप्रत्येकबुद्धवार्षिकाजातिसुमनानामनात्रवशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानां न संविद्यते । तद्यथा कुलपुत्र पारियात्रकस्य कोविदारस्य शुङ्गीभूतस्य वेदितव्यं वहूनां पुष्पशतसहस्राणामायद्वारं भविष्यतीति, एवमेव सर्वज्ञताचित्तोत्पादपारियात्रकवृक्षस्य कुशलमूलशुङ्गीभूतस्य वेदितव्यमसंख्येयानां देवमनुष्याणां सास्रवानासवबोधिकुसुमायद्वारं भविष्यतीति । तद्यथा 20 कुलपुत्र यः एकदिवसपरिभावितस्य पारियात्रकुसुमैर्वस्त्रस्य तैलस्य वा गन्धः प्रवाति, स दिवसशतसहस्रपरिभावितस्य चम्पकवार्षिकासुमनाभिवस्त्रस्य वा तैलस्य वा न संविद्यते। एवमेव य एकजन्मपरिभावितस्य सर्वज्ञताचित्तसंतानस्य बोधिसत्त्वगुणज्ञानगन्धो दशसु दिक्षु सर्वबुद्धपादमूलेषु प्रवाति, स कल्पशतसहस्रपरिभावितानां सर्वश्रावकप्रत्येकबुद्धचित्तानामनास्रवकुशलधर्मज्ञानगन्धो न संविद्यते । तद्यथा कुलपुत्र अस्ति नालीकेरी नाम 25 वृक्षजातिः उद्यतके समुद्रे संभूता । सा मूलत उपादाय यावत्पुष्पफलपर्यन्तात्सर्वकालं 502 सर्वसत्त्वानां न कदाचिन्नोपजीव्या भवति । एवमेव महाकरुणाप्रणिधिमूलसंजातो बोधिसत्त्वस्य प्रथमसर्वज्ञताचित्तोत्पादो यावत्सद्धर्मस्थितिपर्यवसानात् सदेवकस्य लोकस्य न कदाचिन्नोपजीव्यो भवति । तद्यथा कुलपुत्र अस्ति हाटकप्रभासं नाम रसजातम् । तस्य एकपलं लोहपलसहस्रं वर्णीकरोति । न च तद्रसपलं शक्यं तेन लोहपलसहस्रेण पर्यादातुं न लोहीकर्तुम् । 30 एवमेव एकसर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरण
१ B नाडीकरी.
गण्ड.५१