________________
B 199
8 503
४०२
गण्डव्यूहसूत्रम् ।
[ ५४. १७८
लोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति । न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यं सर्वकर्मक्केशलोहैः संक्लेशयितुं पर्यादातुं वा । तद्यथा कुलपुत्र कियत्परीत्तोऽप्यग्निर्यावदुपादानं लभते तावतीं ज्वालां प्रमुञ्चति, एवमेव कियत्परीत्तोऽपि सर्वज्ञताचित्तोत्पादाग्निरारम्वणव्यवकीर्णतया यावत् संभारोपादानं लभते, तावद्विवर्धते ज्ञानार्चिः प्रमोचनतया । तद्यथा कुलपुत्र 5 एकस्मात्प्रदीपादनेकानि प्रदीपकोटीशतसहस्राण्यादीप्यन्ते, अक्षय एव प्रदीपो भवत्यपर्यादत्तः सर्वप्रदीपनिर्याणैः, एवमेव एकस्मात्सर्वज्ञताचित्तोत्पादप्रदीपादतीतानागतप्रत्युत्पन्नानां सर्वतथागतानां सर्वज्ञताचित्तोत्पादप्रदीपानां दीप्यमानानामक्षय एव स एकः सर्वज्ञताचित्तोत्पादप्रदीपोऽवभाति अपर्यादत्तः सर्वज्ञताचित्तोत्पादप्रदीपनिर्याणैः । तद्यथा कुलपुत्र एकः प्रदीपो यादृशे गृहे वातायने वा प्रवेश्यते, सहप्रवेशितो वर्षसहस्रसंचितमपि तमोन्धकारं विधमति 10 अवभासं च करोति, एवमेव एकसर्वज्ञताचित्तोत्पादप्रदीपो यादृशे सत्त्वाशय गृहगहनेऽविद्यातमोन्धकारानुगते प्रवेश्यते, स सहप्रवेशितोऽनभिलाप्यकल्पशतसहस्रसंचितमपि क्लेशावरणतमोन्धकारं विधमति, ज्ञानालोकं च संजनयति । तद्यथा कुलपुत्र यादृशी प्रदीपवर्तिर्भवति तादृशं प्रदीपोऽवभासं करोति, यात्रांश्च स्नेहसंचयो भवति तावद्दीप्यते । एवमेव यस्य वोधिसत्त्वस्य यादृशी प्रणिधानवर्तिविशेषता भवति, तादृशं सर्वज्ञताचित्तोत्पादप्रदीपो धर्मधात्वव15 भासं करोति । यावच्च महाकरुणाचर्यास्नेहसंचयो भवति तावत्सत्त्वविनयक्षेत्र विशुद्धिबुद्धकार्यप्रभावना भवति । तद्यथा कुलपुत्र दिव्यजाम्बूनदसुवर्णालंकारो वशवर्तिनो देवराजस्य मूर्भाववद्धोऽसंहार्यो भवति सर्वकामावचरैर्देवपुत्रैः, एवमेव प्रतिपत्तिगुणप्रतिष्ठितः सर्वज्ञताचित्तोत्पाददिव्यजाम्बूनदसुवर्णालंकारोऽविनिवर्तनीयानां बोधिसत्त्वानां महाप्रणिधानमूर्ध्नावबद्धोऽसंहार्यो भवति सर्वबालपृथग्जन शैक्षा शैक्षप्रत्येकबुद्धैः । तद्यथा कुलपुत्र सिंहस्य मृग20 राजस्य नादेन अचिरजाताः सिंहपोताः पुष्यन्ति, सर्वमृगाश्च विलयं गच्छन्ति, एवमेव तथागतपुरुषसिंहस्य बोधिचित्तसंवर्णन सर्वज्ञतानादेन प्रयुक्तेन सर्वादिकार्मिक बोधिसत्त्वसिंहपोताः पुष्यन्ति बुद्धधर्मैः, सर्वोपलम्भसंनिश्रिताश्च सत्त्वा विलयं गच्छन्ति । तद्यथा कुलपुत्र सिंहस्नायुकृतवीणातन्त्रीशब्देन सर्ववीणातन्त्र्यः संछिद्यन्ते, एवमेव पारमिताशरीरतथागतसिंह बोधिचित्तोत्पादस्नायुतन्त्रीगुणवर्णशब्देन सर्वकामगुणरतिवीणातन्त्र्यः संछिद्यन्ते, सर्व श्रावकप्रत्येकबुद्ध25 चर्यागुणकथाश्च संनिरुध्यन्ते । तद्यथा कुलपुत्र गोमहिष्यजाक्षीरपूर्णमहासमुद्रे एक सिंह दुग्धबिन्दुप्रक्षेपेण सर्वक्षीराण्यपक्रामन्ति न संधयति, एवमेव कल्पशतसहस्रसंचितः कर्मक्लेशक्षीरमहासमुद्रः तथागतमहा पुरुषसिंह सर्वज्ञताचित्तोत्पाददुग्धैकबिन्दुप्रक्षेपेण सर्वोऽनवशेषः क्षयं गच्छन्ति, सर्वश्रावकप्रत्येकबुद्ध विमुक्तयश्च न संतिष्ठन्ते, न संवसति । तद्यथा कुलपुत्र अण्डकोशादनिर्गतस्य कलविङ्कपोतस्य यो नादबलविशेषः सर्वबलवेगसंपन्नानां हिमव30 निवासिनां सर्वपक्षिगणानां न संविद्यते, एवमेव यः संसाराण्डकोशगतस्यादि कर्मिकबोधिसत्त्वकलविङ्कपोतस्य महाकरुणाबोधिचित्तनादबलविशेषः सर्व श्रावकप्रत्येकबुद्धानां न संविद्यते । तद्यथा कुलपुत्र योऽचिरजातस्य महागरुडेन्द्रपोतस्य पक्षवातबलपराक्रमो नयनपरिशुद्धि