________________
8504
-५४.१७८] ५४ मैत्रेयः।
४०३ गुणश्च, स सर्वशरीरप्रवृद्धानां तदन्येपां पक्षिणां न संविद्यते, एवमेव यः प्रथमचित्तोत्पादिकस्य तथागतमहागरुडेन्द्रस्य कुलगोत्रसंभवस्य बोधिसत्त्वमहागरुडेन्द्रपोतस्य सर्वज्ञताचित्तोत्पादवलपराक्रमो महाकरुणाध्याशयनयनपरिशुद्धिगुणश्च, स कल्पशतसहत्रनिर्यातानां सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते । तद्यथा कुलपुत्र महापुरुषहस्तगतो नाराचः कियदृढमपि वर्म निर्भिनत्ति, एवमेव दृढवीर्यबोधिसत्त्वहस्तगतः सर्वज्ञताचित्तोत्पादनाराचः । सर्वदृष्ट्यनुशयवर्माणि निर्भिनत्ति । तद्यथा कुलपुत्र क्रोधाविष्टस्य महानग्नस्य यावल्ललाटे पिटकास्तिष्ठन्ति, तावदधृष्यो भवति सर्वजम्बुद्वीपकैर्मनुष्यैः, एवमेव महामैत्रीमहाकरुणाविष्टस्य वोधिसत्त्वमहानग्नस्य यावदध्याशयवदने सर्वज्ञताचित्तोत्पादपिटका न विगच्छन्ति, तावदधृष्यो भवति सर्वलोकधातुपर्यापन्नैः सर्वमारैः सर्वकर्मभिश्च । तद्यथा कुलपुत्र यः शिक्षितस्येष्वस्त्रान्तेवासिन इष्वस्त्रज्ञाने कृताभ्यासस्य शिल्पस्थानयोगबलविशेषः, स 10 सर्वशिक्षितस्य इष्वस्त्राचार्यस्य न संविद्यते, एवमेव यः सर्वादिकर्मिकस्य सर्वज्ञताभूम्या कृताभ्यासस्य बोधिसत्त्वाजानेयस्य प्रणिधिज्ञानाधिमुक्तिचर्यावलविशेषः, सोऽनुत्पादितवोधिचित्तानां सर्वशैक्षाशैक्षप्रत्येकबुद्धानां च न संविद्यते । तद्यथा कुलपुत्र इष्वस्त्रं शिक्षमाणस्य प्रथमः पदवन्धयोग्याभ्यासः पूर्वगमो भवति सर्वेष्वस्त्रज्ञानस्य, एवमेव बोधिसत्त्वस्य सर्वज्ञभूमौ शिक्षमाणस्य प्रथमं सर्वज्ञताचित्ताध्याशयसंप्रस्थानं पूर्वंगमं भवति सर्वबुद्धधर्माधिगमाय । तद्यथा 15 कुलपुत्र मायाकारस्य मायागतविषयं संदर्शयमानस्य प्रथममन्त्रपदसिद्ध्यभिनिहरिमेव मनसिकुर्वाणस्य सर्वक्रियासिद्धिर्भवति, एवमेव बोधिसत्त्वस्य सर्वबुद्धबोधिसत्त्वविषयविकुर्वाः संदर्शयतः प्रथमचित्तोत्पादप्रणिधानाभिनिहार एवोत्यापको भवति सर्ववुद्धबोधिसत्त्वविषयस्य । तद्यथा कुलपुत्र सर्वमायाविद्यामन्त्राश्चारूपिणोऽनिदर्शनाः सर्वमायानिर्माणरूपगतानि संदर्शयन्ति चित्तोत्पादेन, एवमेव सर्वज्ञताचित्तोत्पादश्चारूप्यानिदर्शनः सर्वधर्मधातुं च विठपयति 20 B 200 सर्वगुणालंकारव्यूहैश्चित्तोत्पादवशितामात्रेण । तद्यथा कुलपुत्र मार्जारस्य सहदृष्टविचारमात्रेण सर्वमूषिका विलयमापद्यन्ते, एवमेव बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादाध्याशयप्रयोगविचारमात्रेण सर्वकर्मक्लेशा विलयमापद्यन्ते । तद्यथा कुलपुत्र जाम्बूनदसुवर्णालंकार आवद्धः 5505 सर्वाभरणानि जिमीकरोति, एवमेव बोधिचित्तजाम्बूनदसुवर्णालंकाराध्याशयावबद्धो बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धगुणालंकारानभिभवति जिह्मीकरोति । तद्यथा कुलपुत्र अयस्कान्त- 25 राजस्य कियत्परीत्तोऽपि धातुः सर्वदृढमायसं बन्धनं स्फोटयति, एवमेव कियत्परीत्तोऽप्यध्याशयोत्पादितः सर्वज्ञताचित्तोत्पादधातुः सर्वदृष्टिकृताविद्यातृष्णावन्धनानि स्फोटयति । तद्यथा कुलपुत्र यत्र यत्रैव अयस्कान्तधातुर्विचार्यते, तत्र तत्रैव सर्वाणीतराण्यांसि पलायन्ते, न तिष्ठन्ते न संदधति । एवमेव यत्र यत्रैव सर्वज्ञताचित्तोत्पादधातुर्विचार्यते कर्मेषु वा क्लेशेषु वा श्रावकप्रत्येकबुद्धविमुक्तौ वा, ततस्तत एव कर्मक्लेशाः सर्वश्रावकप्रत्येकबुद्धविमुक्तयश्च 30 पलायन्ते न तिष्ठन्ति, न संदधति । तद्यथा कुलपुत्र मकरविद्धाश्रितः कैवर्तः सर्वोदकप्राणिभयविनिवृत्तो भवत्यनुपघातशरीरो मकरमुखगतोऽपि, एवमेव अध्याशयबोधिचित्तविद्धाश्रितो