________________
४०४
S506
गण्डब्यूहसूत्रम्।
[५४.१७८वोधिसत्त्वः सर्वसंसारकर्मक्लेशभयविनिवृत्तो भवति सर्वश्रावकप्रत्येकबुद्धाभिसमयान्तरप्राप्त्यनुवात्यो भूतकोटीसाक्षाक्रियाप्रणाशपथापतनतया । तद्यथा कुलपुत्र अमृतपानपीतः पुरुपः सर्वपरोपक्रमैन त्रियते, एवमेव सर्वज्ञताचित्तोत्पादामृतपानपीतो बोधिसत्त्वः सर्वश्रावकभूमिषु न म्रियते, न चोपरमति बोधिसत्त्वमहाकरुणाप्रणिधानात् । तद्यथा कुलपुत्र अञ्जनसिद्धः पुरुपः 5 सर्वमनुष्यभवनेषु चानुविचरति न च सर्वमनुष्यदृश्यते, एवमेव बोधिचित्तोत्पादप्रज्ञाप्रणिध्युपस्तब्धो बोधिसत्त्वः सर्वमारविपयेषु चानुविचरति, सर्वमारैश्च न दृश्यते । तद्यथा कुलपुत्र महाराजसंनिश्रितः पुरुषः सर्वप्राकृतजनात् न विभेति, एवमेव सर्वज्ञताचित्तोत्पादमहाधर्मराजसंनिश्रितो बोधिसत्त्वः सर्वावरणनिवरणदुर्गतिभ्यो न बिभेति ।
तद्यथा कुलपुत्र पर्वतगृहेषु सर्वभूम्यन्तर्गतपानीयभयान्नास्त्यग्निभयम् , एवमेव वोधिचित्त10 कुशलमूलाभिष्यन्दितसंतानस्य बोधिसत्त्वस्य नास्ति श्रावकप्रत्येकवुद्धविमुक्तिज्ञानाग्निभयम् । तद्यया कुलपुत्र शूरसंनिश्रितः पुरुषः सर्वशत्रुभ्यो न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादशूरसंनिश्रितो बोधिसत्त्वः सर्वदुश्चरितशत्रुभ्यो न बिभेति । तद्यथा कुलपुत्र वज्रप्रहरणगृहीतः शक्रो देवेन्द्रः सर्वासुरगणं प्रमर्दयति, एवमेव सर्वज्ञताचित्तोत्पाददृढाध्याशय
वज्रग्रहरणगृहीतो बोधिसत्त्वः सर्वमारपरप्रवाद्यसुरगणं प्रमर्दयति । तद्यथा कुलपुत्र 15 रसायनोपयुक्तः पुरुषो दीर्घमायुः पालयति न च दुर्बलीभवति, एवमेव सर्वज्ञताचित्तोत्पादरसायनसंभारप्रयुक्तो वोधिसत्त्वोऽसंख्येयान् कल्पान् संसारे संसरन्न परिखिद्यते, न च संसारदोषैलिप्यते । तद्यथा कुलपुत्र सर्वभैपज्यरससंप्रयोगेषु पानीयं पूर्वगमं न क्वचिद्दष्यति, एवमेव सर्वबोधिसत्त्वचर्याप्रणिधानसंभारयोगेषु सर्वज्ञताचित्तोत्पादः पूर्वगमो भवति, न कचिट्ठष्यति । तद्यथा कुलपुत्र पुरुषस्य सर्वकार्येषु जीवितेन्द्रियं पूर्वंगमम् , एवमेव बोधिसत्त्वस्य 20 सर्वबुद्धधर्मादानेषु बोधिचित्तं पूर्वगमम् । तद्यथा कुलपुत्र जीवितेन्द्रियविमुक्तः पुरुषो निरुपजीव्यो भवति मातापितृज्ञातिवर्गस्य सर्वकर्मासमर्थत्वात् , एवमेव सर्वज्ञताचित्तोत्पादवियुक्तो बोधिसत्त्वः सर्वज्ञतागुणनिरुपजीव्यो भवति सर्वसत्त्वानां वुद्धज्ञानप्रतिलम्भासमर्थत्वात् । तद्यथा कुलपुत्र महासमुद्रः सर्वविषैरदूष्यो भवति, एवमेव सर्वज्ञताचित्तोत्पादमहासमुद्रोऽदूष्यो भवति सर्वकर्मक्लेशश्रावक प्रत्येकबुद्धचित्तोत्पादविपैः । तद्यथा कुलपुत्र 25 सूर्यमण्डलमपर्यन्तं सर्वतारावभासैः, एवमेव सर्वज्ञताचित्तोत्पादसूर्यमण्डलमपर्यापन्नं भवति, सर्वश्रावकप्रत्येकबुद्धतारानास्रवगुणानभिभवति । तद्यथा कुलपुत्र अचिरजातो राजपुत्रो मूर्धप्राप्तान् सर्ववृद्धामात्यानभिभवति कुलाभिजात्याधिपत्येन, एवमेव अचिरोत्पादितबोधिचित्तस्तथागतधर्मराजकुलप्रत्याजात आदिकर्मिको बोधिसत्त्वश्चिरचरितब्रह्मचर्यान् वृद्धश्रावकानभि
भवति बोधिचित्तमहाकरुणाधिपत्येन । तद्यथा कुलपुत्र कियदृद्धेनाप्यमात्येन कियद्बालस्यापि
80 राजकुमारस्य प्रणिपतितव्यम् , न च राजपुत्रेण वृद्धामात्यस्य गौरवं न करणीयम् , .. s 507 एवमेव कियबृद्धैरपि चिरचरितब्रह्मचर्यैः श्रावकप्रत्येकबुद्धेरादिकर्मिकस्य बोधिसत्त्वस्य अव
- . नमितव्यम्, न च बोधिसत्त्वेन प्रत्येकबुद्धेषु गौरवं न करणीयम् । तद्यथा कुलपुत्र