________________
B 201
-५४.१७४]
५४ मैत्रेयः। सर्वापरिभूतो राजपुत्रोऽविरहितो राजलक्षणेन सर्वाग्रताप्राप्तैरपि राजामासन समो जाय त्वात् , एवमेव कियत्कर्मक्लेशोपादानपरिभूत आदिकर्मिको बोधिसत्त्वः सर्वज्ञताचित्तोत्पादलक्षणेनाविरहितः सर्वाग्रप्राप्तैरपि सर्वश्रावकप्रत्येकयुद्धर्न समो बुद्धकुलाधिपत्याध्यक्षत्वात् । तद्यथा कुलपुत्र परिशुद्धमणिरत्नं चक्षुस्तिमिरदोषेणापरिशुद्धमित्याभासमागच्छति, एवमेव प्रकृतिपरिशुद्धं सर्वज्ञताचित्तोत्पादरनं सत्त्वा अश्रद्धानयनाज्ञानतिनिरदोषेणापरिशुद्धमिति संजानन्ति । तद्यथा । कुलपुत्र सर्वविद्यौषधिसंग्रहसंप्रयुक्तो भैषज्यविग्रहो दर्शनस्पर्शनसंवासनैः सत्त्वानां व्याधीन् शमयति, एवमेव सर्वकुशलमूलोपचयप्रज्ञोपायविद्यौषधिसंगृहीतं बोधिचित्तसंप्रयुक्तं वोधिसत्त्वप्रणिधिज्ञानशरीरं श्रवणदर्शनसंवासनानुस्मृतिप्रयोगेन सत्त्वानां क्लेशव्याधीन् प्रशमति । तद्यथा कुलपुत्र हंसलक्षणं वस्त्रं सर्वकर्दमदोर्न क्लिश्यते, एवमेव बोधिचित्तोत्पादहसलक्षणवस्त्रं संसारक्लेशकर्दमदोषैर्न क्लिश्यते । तद्यथा कुलपुत्र मूर्धशल्यसंगृहीतो दारुविग्रहो 10 न विकीर्यते, सर्वक्रियाश्चानुभवति, एवमेव बोधिचित्तोत्पादप्रणिधिमूर्धशल्यसंगृहीतं सर्वज्ञताप्रणिधिज्ञानशरीरं बोधिसत्त्वक्रियासमर्थं भवति, न च विकीर्यते सर्वज्ञताप्रणिधिशरीरत्वात् । तद्यथा कुलपुत्र शल्यविमुक्तं यन्त्रमकार्यसमर्थं भवति तान्येव दास्प्रत्यङ्गानि, एवमेव सर्वज्ञताचित्तोत्पादाध्याशयवियुक्तो बोधिसत्त्वो बुद्धधर्मपरिनिष्पादनासमर्थो भवति, एवं च ते बोध्यङ्गसंभाराः । तद्यथा कुलपुत्र राज्ञश्चक्रवर्तिनो हस्तिगभं नाम कालागरुरत्नम् । तेन 15 सह धूपितमात्रः सर्वराज्ञश्चतुरङ्गबलकायो विहायसे तिष्ठति । एवमेव सर्वज्ञताचित्तोत्पादागरुधूपितानि बोधिसत्त्वस्य कुशलमूलानि सर्वत्रधातुकव्यतिवृत्तानि भवन्ति असंस्कृतसर्वतथागतज्ञानगगनगोचरपर्यवसानानि । तद्यथा कुलपुत्र वजं नेतराद्रत्नाकरादुत्पद्यतेऽन्यत्र वज्राकरात्सुवर्णाकराद्वा, एवमेव वज्रोपमः सर्वज्ञताचित्तोत्पादः । स नेतरात्सत्त्वाशयकुशलमूलरत्ना- करादुत्पद्यतेऽन्यत्र सत्त्वपरित्राणमहाकरुणावज्राकरात् मर्वज्ञज्ञानाध्यालम्बनमहासुवर्णाकराद्वा । 20 तद्यथा कुलपुत्र अस्त्यमूला नाम वृक्षजातिः । तस्य मूलप्रतिष्ठानं नोपलभ्यते सर्वशाखापत्रपलाशसंकुसुमिता च वृक्षेषु जालीभूता च संदृश्यते, एवमेव सर्वज्ञताचित्तोत्पादस्य मूलप्रतिष्ठानं नोपलभ्यते,सर्वपुण्यज्ञानाभिज्ञासंकुसुमितश्चस सर्वलोकोपपत्तिषु महाप्रणिधानजालीभूतः संदृश्यते । तद्यथा कुलपुत्र वजं नेतरे भाजने तिष्ठच्छोभते, नापि च्छिद्रशुघिरभाजनेन शक्यं संधारयितुमन्यत्र अच्छिद्रभाजऽनेन, एवमेव सर्वज्ञताचित्तोत्पादवजं न हीनाधिमुक्तिकेषु 25 सत्त्वभाजनेषु मत्सरिषु दुःशीलेषु व्यापन्नचित्तेषु कुसीदेषु मुषितस्मृतिषु दुःप्रज्ञेषु शोभते, नाध्याशयविपन्नचलाचलबुद्धिसर्वभाजनेन शक्यं संधारयितुमन्यत्र बोधिसत्त्वाध्याशयरत्नभाजनेन। तद्यथा कुलपुत्र वज्रं सर्वरत्नानि निर्विध्यति, एवमेव सर्वज्ञताचित्तोत्पादवजं सर्वधर्मरत्नानि निर्विध्यति । तद्यथा वजं सर्वशैलानि भिनत्ति, एवमेव सर्वज्ञताचित्तोत्पादवजं सर्वदृष्टिगतशैलानि भिनत्ति । तद्यथा कुलपुत्र भिन्नमपि वज्ररत्नं सर्वरत्नप्रतिविशिष्टं सुवर्णालंकारमभिभवति, 30 एवमेव आशयविपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णा
8508
१% संधारेषु.