SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ S 509 8510 गण्डव्यूहसूत्रम् । [ ५४. १७८ लंकारानभिभवति । तद्यथा कुलपुत्र भिन्नमपि वज्ररत्नं सर्वदारिद्र्यं विनिवर्तयति, एवमेव प्रतिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वसंसारदारिद्र्यं विनिवर्तयति । तद्यथा कुलपुत्र कियत्परीत्तोऽपि वज्रधातुः सर्वमणिपाषाणभेदलक्षणः, एवमेव कियत्परीत्तारम्बणप्रसृतोऽपि सर्वज्ञताचित्तोत्पादवज्रधातुः सर्वाज्ञानभेदलक्षणः । तद्यथा कुलपुत्र वज्ररत्नं न प्राकृतजन5 हस्तगतं भवति, एवमेव सर्वज्ञताचित्तोत्पादवज्ररत्नं न प्राकृताध्याशयानामित्वरकुशलमूलानां देवमनुष्याणां हस्तगतं भवति । तद्यथा कुलपुत्र रत्नपरीक्षानभिज्ञः पुरुषो वज्रमणिरत्नगुणानजानन् नास्य गुणविशेपमनुभवति, एवमेव दुष्प्रज्ञजातीयः पुरुषपुद्गलो बोधिसत्त्वचित्तमहाप्रज्ञावज्ररत्नगुणानभिज्ञो नास्य गुणविशेषमनुभवति । तद्यथा कुलपुत्र वज्रं न शक्यं जरयि - तुम्, एवमेव सर्वज्ञताहेतुभूतं बोधिचित्तोत्पादवनं न शक्यं जरयितुम् । तद्यथा कुलपुत्र वज्रं 10 महाप्रहरणं न शक्यं महानग्नेनापि संधारयितुमन्यत्र महानारायणस्थामबलवेगेन, एवमेव सर्वज्ञताचित्तोत्पादमहावज्रप्रहरणं न शक्यं सर्वश्रावकप्रत्येकबुद्धमहानन्नैरपि संधारयितुमन्यत्र सर्वज्ञताहेतुबलोपस्तब्धाप्रमाणकुशलमूलमहानारायणस्थामप्रतिविशिष्टैर्महावभासप्राप्तैर्महाबोधि - सत्त्वैः । तद्यथा कुलपुत्र यत्र सर्वप्रहरणानि न प्रसहन्ते तत्र वज्रं प्रसहते, न प्रतिहन्यते, एवमेव यत्र सर्व श्रावकप्रत्येकबुद्धप्रणिधिज्ञानप्रहरणानि न प्रसहन्ते सत्त्वपरिपाकविनये वा 16 त्र्यध्वकल्पचर्यादुःखसंवासे वा, तत्र सर्वज्ञताचित्तोत्पादमहावज्रप्रहरणगृहीतो बोधिसत्त्वो - ऽपरिखिन्नमानसः प्रसहते, न प्रतिहन्यते । तद्यथा कुलपुत्र वज्रं न शक्यं केनचित्पृथिवीप्रदेशेन संधारयितुमन्यत्र वज्रतलेन, एवमेव सर्व श्रावकप्रत्येकबुद्धैर्बोधिसत्त्वनिर्याणप्रणिधानसंभारवज्रं न शक्यं संधारयितुमन्यत्राध्याशयबोधिचित्तोत्पादवज्रदृढपृथिवीतलेन । तद्यथा कुलपुत्र दृढवज्रतळाच्छिद्र भाजनत्वान्महासमुद्रे पानीयं न विसरति, एवमेव बोधिसत्त्व20 वज्राच्छिद्रदृढतलपरिणामनाप्रतिष्ठितानि बोधिसत्त्वस्य कुशलमूलानि न क्षीयन्ते सर्वभवो - पपत्तिषु । तद्यथा कुलपुत्र वज्रतलप्रतिष्ठिता महापृथिवी न विदीर्यते न संसीदति, एवमेव बोधिचित्तोत्पादवज्रदृढतलप्रतिष्ठितानि बोधिसत्त्वप्रणिधानानि सर्वत्रैधातुके न विदीर्यन्ते न संसीदन्ति । तद्यथा कुलपुत्र वज्रमुदकेन न विद्यते, एवमेव बोधिचित्तोत्पादवज्रं सर्वकर्मक्लेशोदकेन सर्वकर्मसंवासैर्न विद्यते न विद्यते । तद्यथा कुलपुत्र वज्रं सर्वाग्निदाहैर्न द 25 न संतप्यते, एवमेव सर्वज्ञताचित्तोत्पादवज्रं सर्वसंसारदुःखाग्निदाहैर्न दह्यते, सर्वक्केशाग्नितापैर्न संतप्यते । तद्यथा कुलपुत्र तथागतानामर्हतां सम्यक्संबुद्धानां बोधिमण्डे निषीदतां मारं योधयतां सर्वज्ञतामभिसंबुद्धमानानां नान्येन पृथिवीप्रदेशेन शक्यमासनं संधारयितुमन्यत्र त्रिसाहस्रमहासाहस्रवज्रनाभिधरणितलेन, एवमेव बोधिसत्त्वानामनुत्तरायां सम्यक्संबोधौ प्रणिदधतां चर्यां चरतां पारमिताः परिपूरयतां क्षान्तिमवक्रामतां भूमिं प्रतिलभमानानां 30 कुशलमूलानि परिणामयतां व्याकरणं संप्रतीच्छतां सर्वबोधिसत्त्वमार्गसंभारमुपस्तम्भयतां सर्वतथागतानां महाधर्ममेधान् संधारयतां ते महाकुशलमूलबलाधानवेगा नान्येन चित्तेन शक्याः संधारयितुमन्यत्र सर्वप्रणिधानज्ञानव ज्रदृढनाभिना सर्वज्ञताचित्तोत्पादेन । इति हि ४०६
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy