SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 511 -५४.१७८] ५४ मैत्रेयः। ४०७ कुलपुत्र एभिश्च अन्यैश्च अप्रमाणैर्यावदनभिलाप्यानभिलाप्यैर्गुणविशेषैः समन्वागतः सर्वज्ञताचित्तोत्पादः । तेऽपि सत्त्वा एवंगुणधर्मसमन्वागता भूताश्च भविष्यन्ति च, यैरनुत्तरायां सम्यक्संवोधौ चित्तान्युत्पादितानि । तस्मात्तर्हि कुलपुत्र सुलब्धास्ते लाभाः, यस्त्वमनुत्तरायां सम्यक्संवोधौ चित्तमुत्पाद्य वोधिसत्त्वचयाँ परिमार्गसि एषां गुणानां प्रतिलाभाय ॥ ___ अपि च कुलपुत्र यद्वदसि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं । प्रतिपत्तव्यमिति । गच्छ कुलपुत्र, अस्य वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य अभ्यन्तरं प्रविश्य व्यवलोकय । अत्र ज्ञास्यसि यथा बोधिसत्त्वचर्यायां शिक्षितव्यम् , शिक्षमाणस्य च यादृशी गुणपरिनिष्पत्तिर्भवति ॥ अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयं वोधिसत्त्वं प्रदक्षिणीकृत्वा एवमाह-विवृणु आर्य अस्य कूटागारस्य द्वारम् । प्रवेक्ष्यामि । अथ खलु मैत्रेयो बोधिसत्त्वो वैरोचनव्यूहा- 10 लंकारगर्भस्य कूटागारस्य द्वारमूलमुपसंक्रम्य दक्षिणेन पाणिना अच्छटाशब्दमकापीत् । तस्य द्वारं विवृतमभूत् । स आह-प्रविश कुलपुत्र एतत्कूटागारम् । अथ खल्लु सुधनः श्रेष्ठिदारकः परमाश्चर्यप्राप्तस्तत्कूटागारं प्राविशत् । तस्य समनन्तरप्रविष्टस्य तद्द्वारं संवृतमभूत् । सोऽद्राक्षीत् तं कूटागारं विपुलविस्तीर्णं बहुयोजनशतसहस्रविस्तीर्ण गगनतलाप्रमाणं समन्तादाकाश- धातुविपुलम् असंख्येयच्छत्रध्वजपताकालंकारम् असंख्येयरत्नालंकारम् । असंख्येयमुक्ता- 15 हारप्रलम्बितालंकारम् असंख्येयरत्नहारप्रलम्बितालंकारम् असंख्येयलोहितमुक्ताहारप्रलम्वितालंकारम् असंख्येयसिंहमुक्ताहारप्रलम्बितालंकारम् असंख्येयसिंहध्वजालंकारम् असंख्येयचन्द्रार्धचन्द्रालंकारम् असंख्येयविचित्रपट्टदामाभिप्रलम्वितालंकारम् असंख्येयविविधपट्टपट्टालंकारम् असंख्येयमणिजालप्रभालंकारम् असंख्येयहेमजालालंकारम् असंख्येयरत्नपट्टालंकारम् असंख्येयरत्नसुवर्णसूत्रप्रत्युप्तालंकारम् असंख्येयघण्टामधुरनिर्घोषालंकारम् 20 असंख्येयरत्नकिङ्किणीजालसमीरितमनोज्ञशब्दालंकारम् असंख्येयदिव्यपुष्पौघाभिप्रवर्षणालं. कारम् असंख्येयदिव्यमाल्यदामाभिप्रलम्बितालंकारम् असंख्येयगन्धघटिकानि—पितोपचारालंकारम् असंख्येयसुवर्णचूर्णसंप्रवर्षणालंकारम् असंख्येयहhजालालंकारम् असंख्येयगवाक्षालंकारम् असंख्येयतोरणालंकारम् असंख्येयनिहालंकारम् असंख्येयादर्शमण्डलालंकारम् असंख्येयरनेष्टकानिचितालंकारम् असंख्येयरनभित्त्यलंकारम् असंख्येयस्थूणालंकारम् 25 असंख्येयरत्नवस्त्रमेघालंकारम् असंख्येयरत्नवृक्षालंकारम् असंख्येयरत्नवेदिकालंकारम् असंख्येयरत्नपथालंकारम् असंख्येयरनच्छदनसर्वव्यूहालंकारम् असंख्येयभूमितलप्रतिष्ठानविचित्रव्यूहालंकारम् असंख्येयरत्ननिचितप्रासादालंकारम् असंख्येयरत्नासनालंकारम् असंख्येयमणिकन्यालंकारम् असंख्येयरत्नपट्टसंस्तृतचंक्रमालंकारम् असंख्येयजाम्बूनदसुवर्णवर्णकदलीस्तम्भसुविभक्तालंकारम् असंख्येयसर्वरत्नविग्रहालंकारम् असंख्येयबोधिसत्त्वात्मभावा- 30 लंकारम् असंख्येयपक्षिगणविचित्रमनोज्ञरुतानुरवितालंकारम् असंख्येयरत्नपद्मालंकारम् असंख्येयरनयष्टिसंधारणालंकारम् असंख्येयपुष्करिण्यलंकारम् असंख्येयपुण्डरीकालंकारम्
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy