________________
8 500
गण्डव्यूहसूत्रम् ।
[५४.१७८तोयधाराः प्रमुञ्चति । तद्यथा कुलपुत्र चिन्ताराजमणिमकुटाववद्धानां महानागराजानां नास्ति परोपक्रमभयम् , एवमेव बोधिचित्तमहाकरुणाचिन्ताराजमणिमकुटावबद्धानां नास्ति दुर्गल्यपायोपसंक्रमभयम् । तद्यथापि नाम कुलपुत्र जगद्वयूहगर्भ नाम महामणिरत्नं सर्वसत्त्वाभिप्रायपरिपूरणतया न कदाचित्क्षयमुपैति, एवमेव बोधिसत्त्वचित्तोत्पादसर्वजगद्व्यूहगर्भमहा5 मणिरत्नं सर्वसत्त्वाभिप्रायबोधिप्रणिधिपरिपूरणतया न कदाचित्क्षयमुपैति । तद्यथा कुलपुत्र राज्ञश्चक्रवर्तिनो महामणिरत्नः, स तमोन्धकारविधमं गच्छति, अन्तःपुरमध्यगतं च प्रभासयति, एवमेव सर्वज्ञताचित्तोत्पादचक्रवर्तिमहामणिरत्नं सर्वमविद्यान्धकारविधर्म सत्त्वगतिषु गच्छति, कामधातुस्थितं च महाज्ञानालोकमवमुञ्चति । तद्यथा कुलपुत्र ये इन्द्रनीलमहामणिरत्नाभया स्पृश्यन्ते, सर्वे ते इन्द्रनीलमहामणिरत्नवर्णा भवन्ति, एवमेव सर्वज्ञताचित्तोत्पादेन्द्र10 नीलमहामणिरत्नं येषु विचार्यते प्रेष्यते, यानि च कुशलमूलानि सर्वज्ञताचित्तोत्पादेन
परिणम्यन्ते, तानि सर्वाणि सर्वज्ञतामहामणिरत्नवर्णानि भवन्ति । तद्यथा कुलपुत्र वैडूर्यमणिरत्नं वर्षशतसहस्रमपि अमेध्यमध्यगतं तिष्ठत् सर्वदौर्गन्ध्येन साधं न संवसति, एवमेव सर्वज्ञताचित्तोत्पादात्यन्तविमलविशुद्धप्रभमणिरत्नं सर्वपृथग्जनशैक्षाशैक्षप्रत्येकबुद्धगुणरत्नाकरानभिभवति । तद्यथा कुलपुत्र एकमाग्नेयं नाम महामणिरत्नं सर्वतमोन्धकारं विधमति, 15 एवमेव एकसर्वज्ञताचित्तोत्पादाग्नेयमहामणिरत्नं विपश्यनासंप्रयुक्तं योनिशो मनसिकारतः सर्वमज्ञानतमोन्धकारं विधमति । तद्यथा कुलपुत्र महासमुद्रे पोतारोपितमनर्ययमणिरत्नं वणिग्यस्तगतं नगरप्रतिष्ठानि काचमणिशतसहस्राण्यभिभवति वर्णतश्च आयतश्च, एवमेव संसारमहासमुद्रगतमपि सर्वज्ञताचित्तोत्पादानर्वमहामणिरत्नं प्रणिधिपोता
रोपितं प्रथमचित्तोत्पादिकबोधिसत्त्वाध्याशयसंतानगतमप्राप्तमेव सर्वज्ञतानगरं विमुक्तिनगरं 20 प्रविष्टान् सर्वश्रावक प्रत्येकबुद्धकाचमणिकानभिभवति । तद्यथास्ति वशिराज नाम मणिरत्नं यजम्बुद्वीपगतमेव चत्वारिंशद्योजनसहस्रस्थितानां चन्द्रसूर्यमण्डलानां भवनविमानप्रतिभासव्यूहान् संदर्शयति, एवमेव सर्वगुणपरिशोधितं सर्वज्ञताचित्तोपादवशिराजमणिरत्नं संसारगतमेव धर्मधातुगगनगोचराणां तथागतमहाज्ञानसूर्यचन्द्रमसां सर्ववुद्धविषयमण्डलप्रतिभासव्यूहान् संदर्शयति । तद्यथा कुलपुत्र यावच्चन्द्र25 सूर्यमण्डलानि प्रभयावभासयन्ति, अत्रान्तरे ये केचिद्धनधान्यरत्नजातरूपरजतपुष्पगन्धमाल्यवस्त्रपरिभोगाः, सर्वे ते वशिराजमणिरत्नस्य मूल्यं न क्षमन्ते, एवमेव यावत् त्र्यध्वसु सर्वज्ञज्ञानं धर्मधातुविषयमवभासयति, अत्रान्तरे यानि कानिचिद्देवमनुष्यसर्वश्रावकप्रत्येकबुद्धकुशलानि सास्रवाण्यनास्रवाणि वा, सर्वाणि तानि बोधिचित्तोत्पादवशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते । तद्यथा कुलपुत्र अस्ति सागरव्यूहगर्भ नाम महामणिरत्नं यत्सर्व80 महासागरव्यूहान् संदर्शयति, एवमेव बोधिचित्तोत्पादसागरव्यूहगर्भमहामणिरत्नं सर्वज्ञज्ञानविषयसागरव्यूह संदर्शयति । तद्यथा कुलपुत्र चिन्ताराजमणिरत्नं स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं दिव्येन जाम्बूनदसुवर्णेन, एवमेव सर्वज्ञज्ञानचिन्ताराजमहामणिरत्नं
8198