________________
-५४. १७८ ]
५४ मैत्रेयः ।
३९९
द्वीपका वृक्षा सर्वा विवर्धन्ते, एवमेव वोधिचित्तनिर्वृत्तमूलमहाभैषज्यप्रभावेन सर्वशैक्षाशैक्षप्रत्येकबुद्धबोधिसत्त्वधर्मतरवो विवर्धन्ते । तद्यथा कुलपुत्र अस्ति रतिलम्भा नामौपधिः । सा यस्य शरीरगता भवति, तस्य कायचित्तकल्यता जायते । एवमेव सर्वज्ञताचित्तोत्पादरतिलम्भौपधिः सर्वबोधिसत्त्वानां कायचित्तकल्यतां संजनयति । तद्यथा कुलपुत्र अस्ति स्मृतिलब्धा नामौषधिः पः । तया चित्तस्मृतिर्विशुध्यति । एवमेव सर्वज्ञताचित्तोत्पाद स्मृतिलम्भोपधि- 5 र्बोधिसत्त्वानां सर्वबुद्धधर्मानावरणस्मृतिविशुद्धये संवर्तते । तद्यथा कुलपुत्र अस्ति महापद्मा नामपधिः । तया कल्पमायुः प्रमाणं भवति । एवमेव वोधिचित्तमहाधर्मोपधिप्रसितो बोधिसत्त्वोऽसंख्येयकल्पायुर्वशिताप्राप्तो भवति । तद्यथा कुलपुत्र अस्ति अदृया नामौषधिः । तया गृहीतया सर्वमनुष्यामनुष्यैर्न दृश्यते । एवमेव बोधिचित्तादृश्यमहौषधिगृहीतो व्यवकीर्णबिहारी बोधिसत्त्वः सर्वमारविषये न दृश्यते । तद्यथा कुलपुत्र अस्ति सर्वमणिरत्नसमुच्चयं 10 नाम महामणिरत्नराजं महासमुद्रे । तस्य अन्यलोकधात्वसंक्रान्तस्य अस्थानमनवकाशो यन्महासमुद्रस्य सर्वकल्पोद्दाहाग्निना शक्यं तालमात्रमपि परिशोषयितुम् । एवमेव सर्वज्ञताचित्तोत्पादसर्वमणिरत्नसमुच्चयमहामणिरत्नराजाध्याशयसंतान गतानां बोधिसत्त्वानामस्थानमनवकाशो यदेककुशलमपि सर्वज्ञतापरिणामितं प्रणश्येत् नेदं स्थानं विद्यते । उत्सृष्टे च पुनः सर्वज्ञता - चित्तोत्पादे सर्वकुशलमूलान्युपशुष्यन्ति । तद्यथा अस्ति सर्वप्रभाससमुच्चयं नाम महामणि- 15 रत्नम् । तेन कण्ठावसक्तेन सर्वमणिरत्नालंकारा जिल्ह्मीभवन्ति । एवमेव बोधिसत्त्व सर्वप्रभाससमुच्चयमहामणिरत्नाशयालंकाराववद्धो वोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धचित्तोत्पादरत्नालंकारानभिभवति । तद्यथा कुलपुत्र अस्ति उदकप्रसादकं महामणिरत्नम् । तद्वारिप्रक्षिप्तं सर्वकर्दमकालुष्यं प्रसादयति । एवमेव बोधिचित्तोदकप्रसादकमहामणिरत्नं सर्वक्लेशकर्दमकालुष्यं प्रसादयति । तद्यथा कुलपुत्र उदकसंवासमणिरत्नावबद्धः कैवर्त उदके न म्रियते, एवमेव 20 सर्वज्ञताचित्तोदकसंवासमणिरत्नगृहीतो वोधिसत्त्वः सर्वसंसारसागरे न म्रियते । तद्यथा कुलपुत्र अस्ति नागमणिवर्ममहारत्नम् । तेन सहगते कैवर्तादयो जलजीविनः सर्वनागभव - नानि प्रविशन्तोऽधृष्या भवन्ति सर्वनागोरगैः । एवमेव सर्वज्ञताचित्तोत्पादज्ञाननागमणि - धर्मधारी बोधिसत्त्वः सर्वकामधातुभवनानि प्रविशन्न क्षण्यते । तद्यथा कुलपुत्र शक्राभिलग्नमणिरत्नावबद्धः शक्रो देवराजो सर्वदेवगणानभिभवति, एवमेव सर्वज्ञताचित्तशक्राभिलग्न- 25 महामणिरत्नराजप्रणिधिमकुटावबद्धो बोधिसत्त्वः सर्वत्रैधातुकमभिभवति । तद्यथा कुलपुत्र चिन्ताराजमहामणिरत्नगृहीतः पुरुषः सर्वदारिद्रयान्न विभेति एवमेव सर्वज्ञताचित्तोत्पादचिन्ताराजमहामणिरत्नगृहीतो बोधिसत्त्वः सर्वोपकरणजीविकाभयेभ्यो न बिभेति । तद्यथा कुलपुत्र सूर्यकान्तमणिरत्नं सूर्यदर्शितमग्निं प्रमुञ्चति एवमेव सर्वज्ञताचित्तोत्पादसूर्यकान्तमणिरत्नं प्रज्ञारत्नरश्मिसंसृष्टं ज्ञानाग्निं प्रमुञ्चति । तद्यथा कुलपुत्र 30 चन्द्रकान्तं नाम महामणिरत्नं चन्द्राभया स्पृष्टमुदकधारां प्रमुञ्चति, एवमेव बोधिचित्तोत्पादचन्द्रकान्तमहामणिरत्नं कुशलमूलपरिणामनाचन्द्रप्रभास्पृष्टं सर्वकुशलमूलप्रणिधि
S 498
S 499