SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३९८ गण्डव्यूहसूत्रम् । [५४.१७८प्रसुप्तसत्त्वप्रबोधनतया, प्रसन्नोदकभूतमनाविलतया, जाम्बूनदसुवर्णालंकारभूतं सर्वसंस्कृतावचरकुशलमूलोपचयजिमीकरणतया, महाशैलेन्द्रराजभूतं सर्वत्रैलोक्याच्युततया, त्राणभूतं शरणगतापरित्यागितया, अर्थभूतमर्थप्रतिवहनतया, चित्तभूतं हृदयसंतुष्टिकरणतया, यज्ञोपकरणभूतं सर्वजगत्संतर्पणतया, बुद्धिभूतं सर्वजगचित्तज्येष्ठश्रेष्ठतया, निधानभूतं सर्व5 बुद्धधर्मोद्रहणतया, उद्दानभूतं सर्वबोधिसत्त्वचर्याप्रणिधानसंग्रहणतया, पालकभूतं सर्वलोकानुपालनतया, आरक्षकभूतं सर्वपापविनिवर्तनतया, इन्द्रजालभूतं क्लेशासुराकर्पणतया, वरुणपाशभूतं विनेयाकर्पणतया, इन्द्राग्निभूतं सर्ववासनानुशय क्लेशनिर्दहनतया, चैत्यभूतं सदेवमानुपासुरस्य लोकस्य । इति हि कुलपुत्र बोधिसत्त्वश्चान्यैश्चाप्रमाणैर्गुणविशेपैः समन्वा गतः । संक्षिप्तेन कुलपुत्र यावन्तः सर्वबुद्धधर्माः सर्ववुद्धगुणाश्च, तावन्तो बोधिचित्तगुणाश्च 10 तावन्तो बोधिचित्तगुणानुशंसा अनुगन्तव्याः । तत्कस्य हेतोः ? अतः प्रभवति सर्वबोधि सत्त्वचर्यामण्डलम् । अतो निर्यान्ति अतीतानागतप्रत्युत्पन्नाः सर्वतथागताः । तस्मात्तर्हि कुलपुत्र येन अनुत्तरायां समक्संबोधौ चित्तमुत्पादितम् , सोऽप्रमाणगुणसमुदितो भवति सर्वज्ञताचित्ताध्याशयसुसंगृहीतत्वात् ॥ तद्यथापि नाम कुलपुत्र, अस्त्यभया नामोपधिः । तया पञ्च भयानि न भवन्ति । 15 तद्यथा-अग्निना न दह्यते, विषस्य न आक्रमति, शस्त्रेण न क्षण्यते, उदकेन नोयते, धूमेन न म्रियते । एवमेव कुलपुत्र सर्वज्ञताचित्तौपधिपरिगृहीतो बोधिसत्त्वो रागाग्निना न दह्यते, विषयविषमस्य नाक्रमति, क्लेशशस्त्रेण न क्षण्यते, भावेन नोच्यते, संकल्पधूमेन न म्रियते । तद्यथा कुलपुत्र अत्यनिर्मुक्ता नामौपधिः । तया गृहीतया सर्वपरोपक्रम भयानि न भवन्ति । एवमेव बोधिचित्तज्ञानौपधिपरिगृहीतस्य बोधिसत्त्वस्य सर्वसंसारोप20 क्रमभयानि न भवन्ति । तद्यथा कुलपुत्र, अस्ति मघी नामापधिः । तया गृहीतया गन्धेनैव सर्वाशीविषाः पलायन्ते । एवमेव बोधिचित्तगन्धेनैव सर्वक्लेशाशीविपाः पलायन्ते । तद्यथा कुलपुत्र अपराजितभैषज्यगृहीतः पुरुषोऽजयो भवति सर्वशत्रुमण्डलेन, एमय सर्वज्ञताचित्तापराजितभैषज्यगृहीतो बोधिसत्त्वो दुर्धर्षों भवति सर्वमारप्रत्यर्थिकमण्डलेन । तद्यथा कुलपुत्र अस्ति विगमो नाम भैषज्यम् । तेन सर्वशल्याः पतन्ति । एवमेव बोधिचित्तविगम25 भैषज्यपरिगृहीतस्य बोधिसत्त्वस्य सर्वरागदोषमोहदृष्टिशल्याः पतन्ति । तद्यथा कुलपुत्र अस्ति सुदर्शनो नाम महाभैषज्यराजः । तद्गृहीतः सर्वव्याधीनिर्घातयति । एवमेव बोधिचित्तसुदर्शनमहाभैषज्यराजगृहीतो बोधिसत्त्वः सर्वक्लेशाज्ञानव्याधीनिर्घातयति । तद्यथा कुलपुत्र अस्ति संतानो नाम महाभैषज्यवृक्षः । तस्य सहनिपातिता त्वक् सर्वत्रणान् संरोहयति, यथोत्पाटितास्य त्वक् संभवति । एवमेव वोधिसत्त्वबीजसंभूतः सर्वज्ञतासंतानवृक्षः सहदर्शनेन 30 श्राद्धानां कुलपुत्राणां कर्मक्लेशव्रणान् संरोहयति । स च सर्वज्ञतावृक्षः सर्वलोकेन अक्षतोऽनुपहतः । तद्यथा कुलपुत्र अस्त्यनिर्वृत्तमूला नाम महाभैषज्यजातिः, यस्याः प्रभावेन सर्वजम्बु. १ चिन्ताभूतं. S497 -
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy