________________
- ५४. १७८ ]
५४ मैत्रेयः ।
३९७
B 196
क्लेशव्याधिचिकित्सनतया, पातालभूतं सर्वाकुशलधर्भपर्यवदानकरणतया, वज्रभूतं सर्वधर्मनिर्वेधनतया, गन्धकरण्डकभूतं गुणगन्धकरणतया, महापुष्पभूतं सर्वलोकाभिरुचितदर्शनतया, हिमचन्दनभूतं रागसंतापप्रह्लादनतया, कलापभूतं सर्वधर्मधातुस्करणतया, सुदर्शनमहाभैषज्यराज भूतं सर्वलेशव्याधिनिर्वातनतया, विगनपज्यभूतं सर्वानुशयशल्यसमुद्धातनतया, इन्द्रभूतं सर्वेन्द्रियाधिपतेयतया, वैश्रवणभूतं सर्वदारिवसमुच्छेदनतया, श्रीभूतं सर्वगुणालंकारतया, विभूषणभूतं सर्वबोधिसत्वोपशोभनतया, कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया, अनिर्वृत्तमूलमहाभैपज्यराज भूतं सर्ववुद्धधर्मविवर्धनतया, नागमणिभूतं सर्वक्लेशविषनिवर्तनतया, उदकप्रसादमणिरत्नभूतं सर्वकालुष्यापनयनतया, चिन्तामणिराज भूतं सर्वार्थसंसाधनतया, भद्रघट भूतं सर्वाभिप्राय परिपूरणतया, कानंददवृक्षभूतं सर्वगुणालंकाराभिप्रवर्पणतया, हंसलक्षणवस्त्रभूतं सर्वसंसारदोपासंसृष्टतया, कर्पसतन्तुभूतं प्रकृतिप्रभाखरतया, लाङ्गल - 10 भूतं सत्त्वाशयक्षेत्रविशोधनतया, नोराचभूतं सत्कायधर्मनिस्ताडनतया, वाणभूतं दुःखलक्ष्यनिर्वेधनतया, शक्तिभूतं लेशशत्रुविजयाय, वर्मभूतमयोनिशोमनस्कारसंछादनतया, खड्गभूतं क्लेशशिरः प्रपातनतया, असिपत्रभूतं मानमददर्पसंनाहच्छेदनतया, क्षुरप्रभूतमनुशयधर्मनिर्वेधनतया, शूरध्वजभूतं मानव्वजप्रपातनतया, शस्त्रभूतमज्ञानतरुप्रपातनतया, कुठारभूतं दुःखवृक्षसंवेदनतया, प्रहरणभूतं सर्वोपद्रवपरित्राणत्या, हत्तभूतं पारमिताशरीरपरिपालन - 16 तया, चरणभूतं सर्वगुणज्ञानप्रतिष्ठानतया, शलाकीभूतमविद्याकोशपटलपरिशोधनतया, आबृंहणभूतं सत्कायशल्यसमाबृंहणतया, एपणीभूतमनुशयकण्टककर्षणतया, मित्रभूतं संसारबन्धनपरिमोक्षणतया, द्रव्यभूतं सर्वानर्थप्रतिबाधनतया, शास्तृभूतं सर्ववोधिसत्त्वचर्यानिर्याणपथाभिज्ञतया, निधानभूतमक्षयपुण्यतया, उत्सभूतमक्षयज्ञानतया, आदर्शमण्डलभूतं सर्वधर्ममुखप्रतिभाससंदर्शनतया, पुण्डरीकभूतमनाविलतया, महानदीभूतं पारमितासंग्रह - 20 वस्तुस्रोतः प्रवहनतया, महाभुजगेन्द्रभूतं धर्ममेघाभिप्रवर्षणतया, जीवितेन्द्रियभूतं सर्ववोधिसत्त्वमहाकरुणासंधारणतया, अमृतभूतममरधातुसंत्रापणतया, समन्तंपाशजाल भूतं सर्वविनेयसत्त्वसंग्रहाकर्षणतया, गैन्धकरण्डभूतं सर्वगुणगन्धाधारणतया, अगदभूतमत्यन्तारोग्यकरणतया, प्रतिविपभूतं कामरतिविपनिर्विषीकरणतया, मन्त्रधारणीभूतं सर्वायोनिशोविषपर्यादानतया, वातमण्डलीभूतं सर्वावरणनिवरणवृंहणतया, रत्नद्वीपभूतं सर्ववोधिपक्ष्य- 25 'धर्मरत्नाकरतया, गोत्रभूतं सर्वशुक्लधर्मसंभावनतया, आकरभूतं सर्वगुणधर्मायद्वारतया, पत्तनभूतं सर्वबोधिसत्त्ववणिक्संसेवनतया, रसधातुभूतं सर्वकर्मक्लेशावरण संशोधनतया, मधुकल्पभूतं सर्वज्ञतासंभारपरिपूरणतया, मार्गभूतं सर्वबोधिसत्त्वसर्वज्ञतापुरोपगमनतया, भाजनभूतं सर्वशुक्लधर्मसंधारणतया, वृष्टिभूतं क्लेशरजः प्रशमनतया, प्रतिष्ठानभूतं सर्ववोधिसत्त्वव्यवस्थाननिर्देशनतया, अयस्कान्तभूतं श्रावकविमुक्त्यसंश्लेषणतया, वैडूर्यभूतं स्वभावविमलतया, 30 इन्द्रनीलभूतं सर्वश्रावकप्रत्येकबुद्धसर्वलोकज्ञानपर्यादानाभिभवनतया, यामभेरीभूतं क्लेश
१ S. नारायणभूतं. २ Som. गन्धकरण्डभूतं सर्वगुणगन्धाधारणतया.
S 495
8 496