Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 439
________________ 8504 -५४.१७८] ५४ मैत्रेयः। ४०३ गुणश्च, स सर्वशरीरप्रवृद्धानां तदन्येपां पक्षिणां न संविद्यते, एवमेव यः प्रथमचित्तोत्पादिकस्य तथागतमहागरुडेन्द्रस्य कुलगोत्रसंभवस्य बोधिसत्त्वमहागरुडेन्द्रपोतस्य सर्वज्ञताचित्तोत्पादवलपराक्रमो महाकरुणाध्याशयनयनपरिशुद्धिगुणश्च, स कल्पशतसहत्रनिर्यातानां सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते । तद्यथा कुलपुत्र महापुरुषहस्तगतो नाराचः कियदृढमपि वर्म निर्भिनत्ति, एवमेव दृढवीर्यबोधिसत्त्वहस्तगतः सर्वज्ञताचित्तोत्पादनाराचः । सर्वदृष्ट्यनुशयवर्माणि निर्भिनत्ति । तद्यथा कुलपुत्र क्रोधाविष्टस्य महानग्नस्य यावल्ललाटे पिटकास्तिष्ठन्ति, तावदधृष्यो भवति सर्वजम्बुद्वीपकैर्मनुष्यैः, एवमेव महामैत्रीमहाकरुणाविष्टस्य वोधिसत्त्वमहानग्नस्य यावदध्याशयवदने सर्वज्ञताचित्तोत्पादपिटका न विगच्छन्ति, तावदधृष्यो भवति सर्वलोकधातुपर्यापन्नैः सर्वमारैः सर्वकर्मभिश्च । तद्यथा कुलपुत्र यः शिक्षितस्येष्वस्त्रान्तेवासिन इष्वस्त्रज्ञाने कृताभ्यासस्य शिल्पस्थानयोगबलविशेषः, स 10 सर्वशिक्षितस्य इष्वस्त्राचार्यस्य न संविद्यते, एवमेव यः सर्वादिकर्मिकस्य सर्वज्ञताभूम्या कृताभ्यासस्य बोधिसत्त्वाजानेयस्य प्रणिधिज्ञानाधिमुक्तिचर्यावलविशेषः, सोऽनुत्पादितवोधिचित्तानां सर्वशैक्षाशैक्षप्रत्येकबुद्धानां च न संविद्यते । तद्यथा कुलपुत्र इष्वस्त्रं शिक्षमाणस्य प्रथमः पदवन्धयोग्याभ्यासः पूर्वगमो भवति सर्वेष्वस्त्रज्ञानस्य, एवमेव बोधिसत्त्वस्य सर्वज्ञभूमौ शिक्षमाणस्य प्रथमं सर्वज्ञताचित्ताध्याशयसंप्रस्थानं पूर्वंगमं भवति सर्वबुद्धधर्माधिगमाय । तद्यथा 15 कुलपुत्र मायाकारस्य मायागतविषयं संदर्शयमानस्य प्रथममन्त्रपदसिद्ध्यभिनिहरिमेव मनसिकुर्वाणस्य सर्वक्रियासिद्धिर्भवति, एवमेव बोधिसत्त्वस्य सर्वबुद्धबोधिसत्त्वविषयविकुर्वाः संदर्शयतः प्रथमचित्तोत्पादप्रणिधानाभिनिहार एवोत्यापको भवति सर्ववुद्धबोधिसत्त्वविषयस्य । तद्यथा कुलपुत्र सर्वमायाविद्यामन्त्राश्चारूपिणोऽनिदर्शनाः सर्वमायानिर्माणरूपगतानि संदर्शयन्ति चित्तोत्पादेन, एवमेव सर्वज्ञताचित्तोत्पादश्चारूप्यानिदर्शनः सर्वधर्मधातुं च विठपयति 20 B 200 सर्वगुणालंकारव्यूहैश्चित्तोत्पादवशितामात्रेण । तद्यथा कुलपुत्र मार्जारस्य सहदृष्टविचारमात्रेण सर्वमूषिका विलयमापद्यन्ते, एवमेव बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादाध्याशयप्रयोगविचारमात्रेण सर्वकर्मक्लेशा विलयमापद्यन्ते । तद्यथा कुलपुत्र जाम्बूनदसुवर्णालंकार आवद्धः 5505 सर्वाभरणानि जिमीकरोति, एवमेव बोधिचित्तजाम्बूनदसुवर्णालंकाराध्याशयावबद्धो बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धगुणालंकारानभिभवति जिह्मीकरोति । तद्यथा कुलपुत्र अयस्कान्त- 25 राजस्य कियत्परीत्तोऽपि धातुः सर्वदृढमायसं बन्धनं स्फोटयति, एवमेव कियत्परीत्तोऽप्यध्याशयोत्पादितः सर्वज्ञताचित्तोत्पादधातुः सर्वदृष्टिकृताविद्यातृष्णावन्धनानि स्फोटयति । तद्यथा कुलपुत्र यत्र यत्रैव अयस्कान्तधातुर्विचार्यते, तत्र तत्रैव सर्वाणीतराण्यांसि पलायन्ते, न तिष्ठन्ते न संदधति । एवमेव यत्र यत्रैव सर्वज्ञताचित्तोत्पादधातुर्विचार्यते कर्मेषु वा क्लेशेषु वा श्रावकप्रत्येकबुद्धविमुक्तौ वा, ततस्तत एव कर्मक्लेशाः सर्वश्रावकप्रत्येकबुद्धविमुक्तयश्च 30 पलायन्ते न तिष्ठन्ति, न संदधति । तद्यथा कुलपुत्र मकरविद्धाश्रितः कैवर्तः सर्वोदकप्राणिभयविनिवृत्तो भवत्यनुपघातशरीरो मकरमुखगतोऽपि, एवमेव अध्याशयबोधिचित्तविद्धाश्रितो

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491