Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 438
________________ B 199 8 503 ४०२ गण्डव्यूहसूत्रम् । [ ५४. १७८ लोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति । न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यं सर्वकर्मक्केशलोहैः संक्लेशयितुं पर्यादातुं वा । तद्यथा कुलपुत्र कियत्परीत्तोऽप्यग्निर्यावदुपादानं लभते तावतीं ज्वालां प्रमुञ्चति, एवमेव कियत्परीत्तोऽपि सर्वज्ञताचित्तोत्पादाग्निरारम्वणव्यवकीर्णतया यावत् संभारोपादानं लभते, तावद्विवर्धते ज्ञानार्चिः प्रमोचनतया । तद्यथा कुलपुत्र 5 एकस्मात्प्रदीपादनेकानि प्रदीपकोटीशतसहस्राण्यादीप्यन्ते, अक्षय एव प्रदीपो भवत्यपर्यादत्तः सर्वप्रदीपनिर्याणैः, एवमेव एकस्मात्सर्वज्ञताचित्तोत्पादप्रदीपादतीतानागतप्रत्युत्पन्नानां सर्वतथागतानां सर्वज्ञताचित्तोत्पादप्रदीपानां दीप्यमानानामक्षय एव स एकः सर्वज्ञताचित्तोत्पादप्रदीपोऽवभाति अपर्यादत्तः सर्वज्ञताचित्तोत्पादप्रदीपनिर्याणैः । तद्यथा कुलपुत्र एकः प्रदीपो यादृशे गृहे वातायने वा प्रवेश्यते, सहप्रवेशितो वर्षसहस्रसंचितमपि तमोन्धकारं विधमति 10 अवभासं च करोति, एवमेव एकसर्वज्ञताचित्तोत्पादप्रदीपो यादृशे सत्त्वाशय गृहगहनेऽविद्यातमोन्धकारानुगते प्रवेश्यते, स सहप्रवेशितोऽनभिलाप्यकल्पशतसहस्रसंचितमपि क्लेशावरणतमोन्धकारं विधमति, ज्ञानालोकं च संजनयति । तद्यथा कुलपुत्र यादृशी प्रदीपवर्तिर्भवति तादृशं प्रदीपोऽवभासं करोति, यात्रांश्च स्नेहसंचयो भवति तावद्दीप्यते । एवमेव यस्य वोधिसत्त्वस्य यादृशी प्रणिधानवर्तिविशेषता भवति, तादृशं सर्वज्ञताचित्तोत्पादप्रदीपो धर्मधात्वव15 भासं करोति । यावच्च महाकरुणाचर्यास्नेहसंचयो भवति तावत्सत्त्वविनयक्षेत्र विशुद्धिबुद्धकार्यप्रभावना भवति । तद्यथा कुलपुत्र दिव्यजाम्बूनदसुवर्णालंकारो वशवर्तिनो देवराजस्य मूर्भाववद्धोऽसंहार्यो भवति सर्वकामावचरैर्देवपुत्रैः, एवमेव प्रतिपत्तिगुणप्रतिष्ठितः सर्वज्ञताचित्तोत्पाददिव्यजाम्बूनदसुवर्णालंकारोऽविनिवर्तनीयानां बोधिसत्त्वानां महाप्रणिधानमूर्ध्नावबद्धोऽसंहार्यो भवति सर्वबालपृथग्जन शैक्षा शैक्षप्रत्येकबुद्धैः । तद्यथा कुलपुत्र सिंहस्य मृग20 राजस्य नादेन अचिरजाताः सिंहपोताः पुष्यन्ति, सर्वमृगाश्च विलयं गच्छन्ति, एवमेव तथागतपुरुषसिंहस्य बोधिचित्तसंवर्णन सर्वज्ञतानादेन प्रयुक्तेन सर्वादिकार्मिक बोधिसत्त्वसिंहपोताः पुष्यन्ति बुद्धधर्मैः, सर्वोपलम्भसंनिश्रिताश्च सत्त्वा विलयं गच्छन्ति । तद्यथा कुलपुत्र सिंहस्नायुकृतवीणातन्त्रीशब्देन सर्ववीणातन्त्र्यः संछिद्यन्ते, एवमेव पारमिताशरीरतथागतसिंह बोधिचित्तोत्पादस्नायुतन्त्रीगुणवर्णशब्देन सर्वकामगुणरतिवीणातन्त्र्यः संछिद्यन्ते, सर्व श्रावकप्रत्येकबुद्ध25 चर्यागुणकथाश्च संनिरुध्यन्ते । तद्यथा कुलपुत्र गोमहिष्यजाक्षीरपूर्णमहासमुद्रे एक सिंह दुग्धबिन्दुप्रक्षेपेण सर्वक्षीराण्यपक्रामन्ति न संधयति, एवमेव कल्पशतसहस्रसंचितः कर्मक्लेशक्षीरमहासमुद्रः तथागतमहा पुरुषसिंह सर्वज्ञताचित्तोत्पाददुग्धैकबिन्दुप्रक्षेपेण सर्वोऽनवशेषः क्षयं गच्छन्ति, सर्वश्रावकप्रत्येकबुद्ध विमुक्तयश्च न संतिष्ठन्ते, न संवसति । तद्यथा कुलपुत्र अण्डकोशादनिर्गतस्य कलविङ्कपोतस्य यो नादबलविशेषः सर्वबलवेगसंपन्नानां हिमव30 निवासिनां सर्वपक्षिगणानां न संविद्यते, एवमेव यः संसाराण्डकोशगतस्यादि कर्मिकबोधिसत्त्वकलविङ्कपोतस्य महाकरुणाबोधिचित्तनादबलविशेषः सर्व श्रावकप्रत्येकबुद्धानां न संविद्यते । तद्यथा कुलपुत्र योऽचिरजातस्य महागरुडेन्द्रपोतस्य पक्षवातबलपराक्रमो नयनपरिशुद्धि

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491