Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 436
________________ 8 500 गण्डव्यूहसूत्रम् । [५४.१७८तोयधाराः प्रमुञ्चति । तद्यथा कुलपुत्र चिन्ताराजमणिमकुटाववद्धानां महानागराजानां नास्ति परोपक्रमभयम् , एवमेव बोधिचित्तमहाकरुणाचिन्ताराजमणिमकुटावबद्धानां नास्ति दुर्गल्यपायोपसंक्रमभयम् । तद्यथापि नाम कुलपुत्र जगद्वयूहगर्भ नाम महामणिरत्नं सर्वसत्त्वाभिप्रायपरिपूरणतया न कदाचित्क्षयमुपैति, एवमेव बोधिसत्त्वचित्तोत्पादसर्वजगद्व्यूहगर्भमहा5 मणिरत्नं सर्वसत्त्वाभिप्रायबोधिप्रणिधिपरिपूरणतया न कदाचित्क्षयमुपैति । तद्यथा कुलपुत्र राज्ञश्चक्रवर्तिनो महामणिरत्नः, स तमोन्धकारविधमं गच्छति, अन्तःपुरमध्यगतं च प्रभासयति, एवमेव सर्वज्ञताचित्तोत्पादचक्रवर्तिमहामणिरत्नं सर्वमविद्यान्धकारविधर्म सत्त्वगतिषु गच्छति, कामधातुस्थितं च महाज्ञानालोकमवमुञ्चति । तद्यथा कुलपुत्र ये इन्द्रनीलमहामणिरत्नाभया स्पृश्यन्ते, सर्वे ते इन्द्रनीलमहामणिरत्नवर्णा भवन्ति, एवमेव सर्वज्ञताचित्तोत्पादेन्द्र10 नीलमहामणिरत्नं येषु विचार्यते प्रेष्यते, यानि च कुशलमूलानि सर्वज्ञताचित्तोत्पादेन परिणम्यन्ते, तानि सर्वाणि सर्वज्ञतामहामणिरत्नवर्णानि भवन्ति । तद्यथा कुलपुत्र वैडूर्यमणिरत्नं वर्षशतसहस्रमपि अमेध्यमध्यगतं तिष्ठत् सर्वदौर्गन्ध्येन साधं न संवसति, एवमेव सर्वज्ञताचित्तोत्पादात्यन्तविमलविशुद्धप्रभमणिरत्नं सर्वपृथग्जनशैक्षाशैक्षप्रत्येकबुद्धगुणरत्नाकरानभिभवति । तद्यथा कुलपुत्र एकमाग्नेयं नाम महामणिरत्नं सर्वतमोन्धकारं विधमति, 15 एवमेव एकसर्वज्ञताचित्तोत्पादाग्नेयमहामणिरत्नं विपश्यनासंप्रयुक्तं योनिशो मनसिकारतः सर्वमज्ञानतमोन्धकारं विधमति । तद्यथा कुलपुत्र महासमुद्रे पोतारोपितमनर्ययमणिरत्नं वणिग्यस्तगतं नगरप्रतिष्ठानि काचमणिशतसहस्राण्यभिभवति वर्णतश्च आयतश्च, एवमेव संसारमहासमुद्रगतमपि सर्वज्ञताचित्तोत्पादानर्वमहामणिरत्नं प्रणिधिपोता रोपितं प्रथमचित्तोत्पादिकबोधिसत्त्वाध्याशयसंतानगतमप्राप्तमेव सर्वज्ञतानगरं विमुक्तिनगरं 20 प्रविष्टान् सर्वश्रावक प्रत्येकबुद्धकाचमणिकानभिभवति । तद्यथास्ति वशिराज नाम मणिरत्नं यजम्बुद्वीपगतमेव चत्वारिंशद्योजनसहस्रस्थितानां चन्द्रसूर्यमण्डलानां भवनविमानप्रतिभासव्यूहान् संदर्शयति, एवमेव सर्वगुणपरिशोधितं सर्वज्ञताचित्तोपादवशिराजमणिरत्नं संसारगतमेव धर्मधातुगगनगोचराणां तथागतमहाज्ञानसूर्यचन्द्रमसां सर्ववुद्धविषयमण्डलप्रतिभासव्यूहान् संदर्शयति । तद्यथा कुलपुत्र यावच्चन्द्र25 सूर्यमण्डलानि प्रभयावभासयन्ति, अत्रान्तरे ये केचिद्धनधान्यरत्नजातरूपरजतपुष्पगन्धमाल्यवस्त्रपरिभोगाः, सर्वे ते वशिराजमणिरत्नस्य मूल्यं न क्षमन्ते, एवमेव यावत् त्र्यध्वसु सर्वज्ञज्ञानं धर्मधातुविषयमवभासयति, अत्रान्तरे यानि कानिचिद्देवमनुष्यसर्वश्रावकप्रत्येकबुद्धकुशलानि सास्रवाण्यनास्रवाणि वा, सर्वाणि तानि बोधिचित्तोत्पादवशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते । तद्यथा कुलपुत्र अस्ति सागरव्यूहगर्भ नाम महामणिरत्नं यत्सर्व80 महासागरव्यूहान् संदर्शयति, एवमेव बोधिचित्तोत्पादसागरव्यूहगर्भमहामणिरत्नं सर्वज्ञज्ञानविषयसागरव्यूह संदर्शयति । तद्यथा कुलपुत्र चिन्ताराजमणिरत्नं स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं दिव्येन जाम्बूनदसुवर्णेन, एवमेव सर्वज्ञज्ञानचिन्ताराजमहामणिरत्नं 8198

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491