Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 440
________________ ४०४ S506 गण्डब्यूहसूत्रम्। [५४.१७८वोधिसत्त्वः सर्वसंसारकर्मक्लेशभयविनिवृत्तो भवति सर्वश्रावकप्रत्येकबुद्धाभिसमयान्तरप्राप्त्यनुवात्यो भूतकोटीसाक्षाक्रियाप्रणाशपथापतनतया । तद्यथा कुलपुत्र अमृतपानपीतः पुरुपः सर्वपरोपक्रमैन त्रियते, एवमेव सर्वज्ञताचित्तोत्पादामृतपानपीतो बोधिसत्त्वः सर्वश्रावकभूमिषु न म्रियते, न चोपरमति बोधिसत्त्वमहाकरुणाप्रणिधानात् । तद्यथा कुलपुत्र अञ्जनसिद्धः पुरुपः 5 सर्वमनुष्यभवनेषु चानुविचरति न च सर्वमनुष्यदृश्यते, एवमेव बोधिचित्तोत्पादप्रज्ञाप्रणिध्युपस्तब्धो बोधिसत्त्वः सर्वमारविपयेषु चानुविचरति, सर्वमारैश्च न दृश्यते । तद्यथा कुलपुत्र महाराजसंनिश्रितः पुरुषः सर्वप्राकृतजनात् न विभेति, एवमेव सर्वज्ञताचित्तोत्पादमहाधर्मराजसंनिश्रितो बोधिसत्त्वः सर्वावरणनिवरणदुर्गतिभ्यो न बिभेति । तद्यथा कुलपुत्र पर्वतगृहेषु सर्वभूम्यन्तर्गतपानीयभयान्नास्त्यग्निभयम् , एवमेव वोधिचित्त10 कुशलमूलाभिष्यन्दितसंतानस्य बोधिसत्त्वस्य नास्ति श्रावकप्रत्येकवुद्धविमुक्तिज्ञानाग्निभयम् । तद्यया कुलपुत्र शूरसंनिश्रितः पुरुषः सर्वशत्रुभ्यो न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादशूरसंनिश्रितो बोधिसत्त्वः सर्वदुश्चरितशत्रुभ्यो न बिभेति । तद्यथा कुलपुत्र वज्रप्रहरणगृहीतः शक्रो देवेन्द्रः सर्वासुरगणं प्रमर्दयति, एवमेव सर्वज्ञताचित्तोत्पाददृढाध्याशय वज्रग्रहरणगृहीतो बोधिसत्त्वः सर्वमारपरप्रवाद्यसुरगणं प्रमर्दयति । तद्यथा कुलपुत्र 15 रसायनोपयुक्तः पुरुषो दीर्घमायुः पालयति न च दुर्बलीभवति, एवमेव सर्वज्ञताचित्तोत्पादरसायनसंभारप्रयुक्तो वोधिसत्त्वोऽसंख्येयान् कल्पान् संसारे संसरन्न परिखिद्यते, न च संसारदोषैलिप्यते । तद्यथा कुलपुत्र सर्वभैपज्यरससंप्रयोगेषु पानीयं पूर्वगमं न क्वचिद्दष्यति, एवमेव सर्वबोधिसत्त्वचर्याप्रणिधानसंभारयोगेषु सर्वज्ञताचित्तोत्पादः पूर्वगमो भवति, न कचिट्ठष्यति । तद्यथा कुलपुत्र पुरुषस्य सर्वकार्येषु जीवितेन्द्रियं पूर्वंगमम् , एवमेव बोधिसत्त्वस्य 20 सर्वबुद्धधर्मादानेषु बोधिचित्तं पूर्वगमम् । तद्यथा कुलपुत्र जीवितेन्द्रियविमुक्तः पुरुषो निरुपजीव्यो भवति मातापितृज्ञातिवर्गस्य सर्वकर्मासमर्थत्वात् , एवमेव सर्वज्ञताचित्तोत्पादवियुक्तो बोधिसत्त्वः सर्वज्ञतागुणनिरुपजीव्यो भवति सर्वसत्त्वानां वुद्धज्ञानप्रतिलम्भासमर्थत्वात् । तद्यथा कुलपुत्र महासमुद्रः सर्वविषैरदूष्यो भवति, एवमेव सर्वज्ञताचित्तोत्पादमहासमुद्रोऽदूष्यो भवति सर्वकर्मक्लेशश्रावक प्रत्येकबुद्धचित्तोत्पादविपैः । तद्यथा कुलपुत्र 25 सूर्यमण्डलमपर्यन्तं सर्वतारावभासैः, एवमेव सर्वज्ञताचित्तोत्पादसूर्यमण्डलमपर्यापन्नं भवति, सर्वश्रावकप्रत्येकबुद्धतारानास्रवगुणानभिभवति । तद्यथा कुलपुत्र अचिरजातो राजपुत्रो मूर्धप्राप्तान् सर्ववृद्धामात्यानभिभवति कुलाभिजात्याधिपत्येन, एवमेव अचिरोत्पादितबोधिचित्तस्तथागतधर्मराजकुलप्रत्याजात आदिकर्मिको बोधिसत्त्वश्चिरचरितब्रह्मचर्यान् वृद्धश्रावकानभि भवति बोधिचित्तमहाकरुणाधिपत्येन । तद्यथा कुलपुत्र कियदृद्धेनाप्यमात्येन कियद्बालस्यापि 80 राजकुमारस्य प्रणिपतितव्यम् , न च राजपुत्रेण वृद्धामात्यस्य गौरवं न करणीयम् , .. s 507 एवमेव कियबृद्धैरपि चिरचरितब्रह्मचर्यैः श्रावकप्रत्येकबुद्धेरादिकर्मिकस्य बोधिसत्त्वस्य अव - . नमितव्यम्, न च बोधिसत्त्वेन प्रत्येकबुद्धेषु गौरवं न करणीयम् । तद्यथा कुलपुत्र

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491