Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 435
________________ -५४. १७८ ] ५४ मैत्रेयः । ३९९ द्वीपका वृक्षा सर्वा विवर्धन्ते, एवमेव वोधिचित्तनिर्वृत्तमूलमहाभैषज्यप्रभावेन सर्वशैक्षाशैक्षप्रत्येकबुद्धबोधिसत्त्वधर्मतरवो विवर्धन्ते । तद्यथा कुलपुत्र अस्ति रतिलम्भा नामौपधिः । सा यस्य शरीरगता भवति, तस्य कायचित्तकल्यता जायते । एवमेव सर्वज्ञताचित्तोत्पादरतिलम्भौपधिः सर्वबोधिसत्त्वानां कायचित्तकल्यतां संजनयति । तद्यथा कुलपुत्र अस्ति स्मृतिलब्धा नामौषधिः पः । तया चित्तस्मृतिर्विशुध्यति । एवमेव सर्वज्ञताचित्तोत्पाद स्मृतिलम्भोपधि- 5 र्बोधिसत्त्वानां सर्वबुद्धधर्मानावरणस्मृतिविशुद्धये संवर्तते । तद्यथा कुलपुत्र अस्ति महापद्मा नामपधिः । तया कल्पमायुः प्रमाणं भवति । एवमेव वोधिचित्तमहाधर्मोपधिप्रसितो बोधिसत्त्वोऽसंख्येयकल्पायुर्वशिताप्राप्तो भवति । तद्यथा कुलपुत्र अस्ति अदृया नामौषधिः । तया गृहीतया सर्वमनुष्यामनुष्यैर्न दृश्यते । एवमेव बोधिचित्तादृश्यमहौषधिगृहीतो व्यवकीर्णबिहारी बोधिसत्त्वः सर्वमारविषये न दृश्यते । तद्यथा कुलपुत्र अस्ति सर्वमणिरत्नसमुच्चयं 10 नाम महामणिरत्नराजं महासमुद्रे । तस्य अन्यलोकधात्वसंक्रान्तस्य अस्थानमनवकाशो यन्महासमुद्रस्य सर्वकल्पोद्दाहाग्निना शक्यं तालमात्रमपि परिशोषयितुम् । एवमेव सर्वज्ञताचित्तोत्पादसर्वमणिरत्नसमुच्चयमहामणिरत्नराजाध्याशयसंतान गतानां बोधिसत्त्वानामस्थानमनवकाशो यदेककुशलमपि सर्वज्ञतापरिणामितं प्रणश्येत् नेदं स्थानं विद्यते । उत्सृष्टे च पुनः सर्वज्ञता - चित्तोत्पादे सर्वकुशलमूलान्युपशुष्यन्ति । तद्यथा अस्ति सर्वप्रभाससमुच्चयं नाम महामणि- 15 रत्नम् । तेन कण्ठावसक्तेन सर्वमणिरत्नालंकारा जिल्ह्मीभवन्ति । एवमेव बोधिसत्त्व सर्वप्रभाससमुच्चयमहामणिरत्नाशयालंकाराववद्धो वोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धचित्तोत्पादरत्नालंकारानभिभवति । तद्यथा कुलपुत्र अस्ति उदकप्रसादकं महामणिरत्नम् । तद्वारिप्रक्षिप्तं सर्वकर्दमकालुष्यं प्रसादयति । एवमेव बोधिचित्तोदकप्रसादकमहामणिरत्नं सर्वक्लेशकर्दमकालुष्यं प्रसादयति । तद्यथा कुलपुत्र उदकसंवासमणिरत्नावबद्धः कैवर्त उदके न म्रियते, एवमेव 20 सर्वज्ञताचित्तोदकसंवासमणिरत्नगृहीतो वोधिसत्त्वः सर्वसंसारसागरे न म्रियते । तद्यथा कुलपुत्र अस्ति नागमणिवर्ममहारत्नम् । तेन सहगते कैवर्तादयो जलजीविनः सर्वनागभव - नानि प्रविशन्तोऽधृष्या भवन्ति सर्वनागोरगैः । एवमेव सर्वज्ञताचित्तोत्पादज्ञाननागमणि - धर्मधारी बोधिसत्त्वः सर्वकामधातुभवनानि प्रविशन्न क्षण्यते । तद्यथा कुलपुत्र शक्राभिलग्नमणिरत्नावबद्धः शक्रो देवराजो सर्वदेवगणानभिभवति, एवमेव सर्वज्ञताचित्तशक्राभिलग्न- 25 महामणिरत्नराजप्रणिधिमकुटावबद्धो बोधिसत्त्वः सर्वत्रैधातुकमभिभवति । तद्यथा कुलपुत्र चिन्ताराजमहामणिरत्नगृहीतः पुरुषः सर्वदारिद्रयान्न विभेति एवमेव सर्वज्ञताचित्तोत्पादचिन्ताराजमहामणिरत्नगृहीतो बोधिसत्त्वः सर्वोपकरणजीविकाभयेभ्यो न बिभेति । तद्यथा कुलपुत्र सूर्यकान्तमणिरत्नं सूर्यदर्शितमग्निं प्रमुञ्चति एवमेव सर्वज्ञताचित्तोत्पादसूर्यकान्तमणिरत्नं प्रज्ञारत्नरश्मिसंसृष्टं ज्ञानाग्निं प्रमुञ्चति । तद्यथा कुलपुत्र 30 चन्द्रकान्तं नाम महामणिरत्नं चन्द्राभया स्पृष्टमुदकधारां प्रमुञ्चति, एवमेव बोधिचित्तोत्पादचन्द्रकान्तमहामणिरत्नं कुशलमूलपरिणामनाचन्द्रप्रभास्पृष्टं सर्वकुशलमूलप्रणिधि S 498 S 499

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491