Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 389
________________ B 179 s419 ४७ शिल्पाभिज्ञः। अथ खल सुधनः श्रेष्ठिदारको येन शिल्पाभिज्ञो श्रेष्ठिदारकस्तेनोपसंक्रम्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पादौ शिरसाभिवन्द्य शिल्पाभिज्ञस्य श्रेष्टिदारकस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं वोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो । बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्य:-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ सोऽवोचत्-अहं कुलपुत्र शिल्पाभिज्ञावतो बोधिसत्त्वविमोक्षस्य लाभी । तस्य मे कुलपुत्र मातृकां वाचयमानस्य अकारमक्षरं परिकीर्तयतो बोधिसत्त्वानुभावेन असंभिन्न- विषयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । रकारं परिकीर्तयतोऽनन्ततलसंभेदं नाम 10 प्रज्ञापारमितामुखमवक्रान्तम् । पकार परिकीर्तयतो धर्मधातुतलसंभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम् । चकारं परिकीर्तयतः समन्तचक्रविभक्तिच्छेदनं नाम प्रज्ञापारमितामुखमव- क्रान्तम् । नकारं परिकीर्तयतोऽनिलयप्रतिलब्धं नाम प्रज्ञापारमितामुखमवक्रान्तम् । लकारं परिकीर्तयतो विगतानालयविमलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । दकारं परिकीर्तयतोऽवैवर्त्यप्रयोगं नाम प्रज्ञापारमितामुखमवक्रान्तम् । वकारं परिकीर्तयतो वज्रमण्डलं नाम 15 प्रज्ञापारमितामुखमवक्रान्तम् । डकारं परिकीर्तयतः समन्तचक्रं नाम प्रज्ञापारमितामुखमवक्रान्तम् । सकारं परिकीर्तयतः सागरगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम् । वकारं परिकीर्तयतः समन्तविरूढविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । तकारं परिकीर्तयतो ज्योतिर्मण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । यकारं परिकीर्तयतः संभेदकूटं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ष्टकारं परिकीर्तयतः समन्तदाहप्रशमनप्रभासं नाम प्रज्ञापार- 20 मितामुखमवक्रान्तम् । ककारं परिकीर्तयतोऽसंभिन्नमेघ नाम प्रज्ञापारमितामुखमवक्रान्तम् । षकारं परिकीर्तयतो अभिमुखप्रवर्षणप्रलम्बं नाम प्रज्ञापारमितामुखमवक्रान्तम् । मकारं परिकीर्तयतो महावेगविचित्रवेगशिखरं नाम प्रज्ञापारमितामुखमवक्रान्तम् । गकारं परिकीर्तयतः समन्ततलविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । थकारं परिकीर्तयतः तथतासंभेदगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम् । जकारं परिकीर्तयतो जगत्संसारविशुद्धिविगाहनं 25 नाम प्रज्ञापारमितामुखमवक्रान्तम् । खकारं परिकीर्तयतः सर्वबुद्धस्मृतिव्यूहं नाम प्रज्ञापारमितामुखमवक्रान्तम् । धकारं परिकीर्तयतो धर्ममण्डलविचारविचयं नाम प्रज्ञापारमितामुख-. मवक्रान्तम् । शकार परिकीर्तयतः सर्वबुद्धानुशासनीचक्ररोचं नाम प्रज्ञापारमितामुखमवक्रान्तम् । खकार परिकीर्तयतोऽभिसंस्कारहेतुभूमिज्ञानगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम्। क्षकारं परिकीर्तयतः कर्मनिशान्तसागरकोशविचयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । 30 स्तकारं परिकीर्तयतः सर्वक्लेशविकिरणविशुद्धिप्रभं नाम प्रज्ञापारमितामुखमवक्रान्तम् । अकार परिकीर्तयतो लोकसंभवविज्ञप्तिमुखं नाम प्रज्ञापारमितामुखमवक्रान्तम् । थकारं परिकीर्तयतः संसारप्रतिचक्रज्ञानमण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । भकारं परिकीर्तयतः सर्व गण्ड.४५ 8450

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491