Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 396
________________ ५३ श्रीसंभवः श्रीमतिश्च । अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण सुमनामुखनगरं गत्वा येन श्रीसंभवो दारकः श्रीमतिश्च दारिका, तावुपक्रम्य तयोः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्यों अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि-कथं 5 बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यों बोधि सत्त्वानामववादानुशासनी दत्त इति । तद्वदतां मे आयौँ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ ___ अथ खलु श्रीसंभवो दारकः श्रीमतिश्च दारिका सुधनं श्रेष्ठिदारकमेतदवोचताम्-इह आवाभ्यां कुलपुत्र मायागतो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः साक्षात्कृतः । तावावां 10 कुलपुत्र अनेन विमोक्षेण समन्वागतौ मायागतं सर्वलोकं पश्यावो हेतुप्रत्ययमायासंभूतम् । मायागतान् सर्वसत्त्वान् विजानीवः । कर्मक्केशमायाज्ञानेन मायागतं सर्वजगत्पश्यावः । अविद्याभवतृष्णामायासंभवान् मायागतान् सर्वधर्मान् पश्यावः । अन्योन्यप्रत्ययमायानिवृत्तं मायागतं सर्वत्रैधातुकं पश्यावः अभिनिहतमचिन्त्यविषयमायाबोधिविपर्यासमायासंभूतम् । मायागतान् सर्वसत्त्वान् च्युत्युपपत्तिजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् s 458 16 पश्यावः । असद्भूतसंकल्पमायाजनितानि मायाजनितानि सर्वक्षेत्राणि पश्यावः । संज्ञाचित्त दृष्टिविपर्यासमायाभावद्रव्यसंज्ञासंमोहप्रभवान् मायागतान् सर्वश्रावकप्रत्येकबुद्धान् पश्यावः । ज्ञानप्रहाणमायासंकल्पजनितां मायागतां सर्वबोधिसत्त्वचर्याप्रणिधानसत्त्वपरिपाकविनयपरंपरां प्रजानीवः । मायानि राभिनिवृत्तनिर्मितचर्याविनयमायाखभावान् मायागतं सर्वबुद्धबोधि सत्त्वमण्डलं पश्यावः प्रणिधानज्ञानमायाभिनिर्हतमचिन्त्यविषयमायाखभावम् । एतमावां 20 कुलपुत्र मायागतं बोधिसत्त्वविमोक्षं प्रजानीवः । किमावाभ्यां शक्यमनन्तकर्ममायाविठपजालानुगतानां बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुम् ॥ ___ अथ खलु श्रीसंभवो दारकः श्रीमतिश्च दारिका सुधनं श्रेष्ठिदारकमचिन्त्येन कुशलमूलवेगेन अभिष्यन्दयित्वा खं च विमोक्षविषयं श्राव्य एतदवोचताम्-गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे समुद्रकच्छो नाम दिग्मुखप्रत्युद्देशः । तत्र महाव्यूहं नामोद्यानम् । 25 तत्र वैरोचनव्यूहालंकारगर्भो नाम माकूटागारो बोधिसत्त्वकुशलमूलविपाकाभिनिवृत्तो बोधिसत्त्वचेतनामनसिकारसंभूतो बोधिसत्त्वप्रणिधानसमुद्गतो बोधिसत्त्ववशितासमुत्थितो बोधिसत्त्वाभिज्ञानबलाभिनिर्मितो बोधिसत्त्वोपायकौशल्यसंभूतो बोधिसत्त्वपुण्यज्ञानबलपरिनिष्पन्नो बोधिसत्त्वमहाकरुणासत्त्वविनयसंदर्शनो बोधिसत्त्वाधिष्ठानव्यूहोपचितो बोधिसत्त्वाचिन्त्यविमोक्षविहारालंकारः । तत्र मैत्रेयो नाम बोधिसत्त्वो महासत्त्वः 30 प्रतिवसति जन्मभूमिकानां मनुष्याणामनुग्रहाय । मातापितज्ञातिसंबन्धिनां परिपाकाय । तत्रोपपन्नानां सभागचरितानां सत्त्वानां महायानदृढीकरणाय । तदन्येषामपि सत्त्वानां यथाभूमिषु कुशलमूलपरिपाचनाय । खस्य च विमोक्षनयावतारस्य संदर्शनाय । B182

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491