________________
५३ श्रीसंभवः श्रीमतिश्च । अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण सुमनामुखनगरं गत्वा येन श्रीसंभवो दारकः श्रीमतिश्च दारिका, तावुपक्रम्य तयोः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्यों अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि-कथं 5 बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यों बोधि
सत्त्वानामववादानुशासनी दत्त इति । तद्वदतां मे आयौँ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
___ अथ खलु श्रीसंभवो दारकः श्रीमतिश्च दारिका सुधनं श्रेष्ठिदारकमेतदवोचताम्-इह आवाभ्यां कुलपुत्र मायागतो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः साक्षात्कृतः । तावावां 10 कुलपुत्र अनेन विमोक्षेण समन्वागतौ मायागतं सर्वलोकं पश्यावो हेतुप्रत्ययमायासंभूतम् । मायागतान् सर्वसत्त्वान् विजानीवः । कर्मक्केशमायाज्ञानेन मायागतं सर्वजगत्पश्यावः । अविद्याभवतृष्णामायासंभवान् मायागतान् सर्वधर्मान् पश्यावः । अन्योन्यप्रत्ययमायानिवृत्तं मायागतं सर्वत्रैधातुकं पश्यावः अभिनिहतमचिन्त्यविषयमायाबोधिविपर्यासमायासंभूतम् ।
मायागतान् सर्वसत्त्वान् च्युत्युपपत्तिजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् s 458 16 पश्यावः । असद्भूतसंकल्पमायाजनितानि मायाजनितानि सर्वक्षेत्राणि पश्यावः । संज्ञाचित्त
दृष्टिविपर्यासमायाभावद्रव्यसंज्ञासंमोहप्रभवान् मायागतान् सर्वश्रावकप्रत्येकबुद्धान् पश्यावः । ज्ञानप्रहाणमायासंकल्पजनितां मायागतां सर्वबोधिसत्त्वचर्याप्रणिधानसत्त्वपरिपाकविनयपरंपरां प्रजानीवः । मायानि राभिनिवृत्तनिर्मितचर्याविनयमायाखभावान् मायागतं सर्वबुद्धबोधि
सत्त्वमण्डलं पश्यावः प्रणिधानज्ञानमायाभिनिर्हतमचिन्त्यविषयमायाखभावम् । एतमावां 20 कुलपुत्र मायागतं बोधिसत्त्वविमोक्षं प्रजानीवः । किमावाभ्यां शक्यमनन्तकर्ममायाविठपजालानुगतानां बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुम् ॥ ___ अथ खलु श्रीसंभवो दारकः श्रीमतिश्च दारिका सुधनं श्रेष्ठिदारकमचिन्त्येन कुशलमूलवेगेन अभिष्यन्दयित्वा खं च विमोक्षविषयं श्राव्य एतदवोचताम्-गच्छ कुलपुत्र,
अयमिहैव दक्षिणापथे समुद्रकच्छो नाम दिग्मुखप्रत्युद्देशः । तत्र महाव्यूहं नामोद्यानम् । 25 तत्र वैरोचनव्यूहालंकारगर्भो नाम माकूटागारो बोधिसत्त्वकुशलमूलविपाकाभिनिवृत्तो बोधिसत्त्वचेतनामनसिकारसंभूतो बोधिसत्त्वप्रणिधानसमुद्गतो बोधिसत्त्ववशितासमुत्थितो बोधिसत्त्वाभिज्ञानबलाभिनिर्मितो बोधिसत्त्वोपायकौशल्यसंभूतो बोधिसत्त्वपुण्यज्ञानबलपरिनिष्पन्नो बोधिसत्त्वमहाकरुणासत्त्वविनयसंदर्शनो बोधिसत्त्वाधिष्ठानव्यूहोपचितो
बोधिसत्त्वाचिन्त्यविमोक्षविहारालंकारः । तत्र मैत्रेयो नाम बोधिसत्त्वो महासत्त्वः 30 प्रतिवसति जन्मभूमिकानां मनुष्याणामनुग्रहाय । मातापितज्ञातिसंबन्धिनां परिपाकाय ।
तत्रोपपन्नानां सभागचरितानां सत्त्वानां महायानदृढीकरणाय । तदन्येषामपि सत्त्वानां यथाभूमिषु कुशलमूलपरिपाचनाय । खस्य च विमोक्षनयावतारस्य संदर्शनाय ।
B182