SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ -५३.० ] ५३ श्रीसंभवः श्रीमतिश्च । ३६१ सर्वत्रानुगतां च बोधिसत्त्वोपपत्तिवशितां प्रभावयन् सर्वसत्त्वजन्मसंदर्शनाभिमुखतया च सत्त्वपरिपाकारिञ्चनतायै । सर्वजगत्परिग्रहजुगुप्सनतया च वोधिसत्त्वमहाकरुणावलोद्भावनाय । सर्वनिकेतस्थानोच्चलितं च वोधिसत्त्वविहारमवबोधनाय । अनिकेत परमं च सर्वभवोप -- पत्तिसंत्राससंदर्शनाय । तमुपसंक्रम्य परिपृच्छ कथं बोधिसत्त्वेन वोधिसत्त्वचर्या परिप्रष्टव्या, कथं बोधिसत्त्वेन बोधिसत्त्वमार्गः परिशोधयितव्यः, कथं वोधिसत्त्वेन वोधिसत्त्व - शिक्षासु प्रतिपत्तव्यम्, कथं बोधिसत्त्वेन बोधिचित्तं प्रतिशोधयितव्यम्, कथं बोधिसत्त्वेन बोधिसत्त्वप्रणिधानमभिनिर्हर्तव्यम्, कथं बोधिसत्त्वेन वोधिसत्त्वसंभाराः समुत्थापयितव्याः, कथं वोधिसत्त्वेन बोधिसत्त्वभूमय आक्रमितव्याः, कथं बोधिसत्त्वेन बोधिसत्त्वपारमिताः परिपूरयितव्याः, कथं बोधिसत्त्वेन वोधिसत्त्वक्षान्तयोऽवतरितव्याः, कथं बोधिसत्त्वेन बोधिसत्त्वप्रतिपत्तिगुणेषु स्थातव्यम्, कथं बोधिसत्त्वेन कल्याणमित्राणि पर्युपासितव्यानि । 10 तत्कस्य हेतोः ? स हि कुलपुत्र मैत्रेयो वोधिसत्त्वोऽवतीर्णः सर्ववोधिसत्त्वचर्यासु गतिंगतः । सर्ववोधिसत्त्वचित्ताशयेषु सोऽनुप्रविष्टः । सर्वसत्त्ववर्यासु सोऽभिमुखः सर्वसत्त्वपरिपाकविनयेषु । तेन परिपूरिताः सर्वपारमिताः । सुप्रतिष्ठिताः सर्वबोधिसत्त्व भूमिषु । तेन प्रतिलब्धाः सर्वबोधिसत्त्वक्षान्तयः । सोऽवक्रान्तो बोधिसत्त्वनियामम् । तेन प्रतीष्टानि सर्वव्याकरणानि । स विक्रीडितः सर्वबोधिसत्त्वविमोक्षेषु । तेन संधारितानि सर्वबुद्धाधिष्ठानानि । सोऽभिषिक्तः 15 सर्वतथागतैः सर्वज्ञज्ञानविषयाभिषेकेण । स ते कुलपुत्र कल्याणमित्रोऽभिष्यन्दयिष्यति सर्वकुशलमूलानि विवर्धयिष्यति । बोधिचित्तोत्पादं दृढीकरिष्यति । अध्याशयधातुमुत्तापयिष्यति । सर्वकुशलमूलानि विवर्धयिष्यति । बोधिसत्त्वेन्द्रियवेगान् संदर्शयिष्यति । अनावरणधर्मदिशं प्रवेशयिष्यति । समन्तभद्रभूम्यनुगमे निवेशयिष्यति । सर्वबोधिसत्त्वप्रणिधाननिर्याणमुखेषु संवर्णयिष्यति । सर्ववोधिसत्त्वचर्याप्रणिधानगुणपरिनिष्पत्तिमाख्यास्यति 20 समन्तभद्रबोधिसत्त्वचर्या श्रवणपर्यायद्वारम् । न च ते कुलपुत्र एककुशलमूलतन्मयेन भवितव्यं नैकधर्ममुखालोकावभासपरमेण नैकचर्यापरिसंतुष्टेन नैकप्रणिधानाभिनिर्हारपरमेण नैकव्याकरणेन, न निष्ठाप्रतिप्रस्रब्धेन, न त्रिक्षान्त्यवतारपरमसंज्ञिना, न षट्पारमितापरिपूरिप्रस्रब्धेन, न दशभूमिप्रतिलाभनिष्ठागतेन, न प्रामाणिकबुद्धक्षेत्रपरिग्रहपरिशुद्धिप्रणिधानेन, न प्रमाणीकृतकल्याणमित्रारागणपर्युपासनसंतुष्टेन भवितव्यम् । तत्कस्य हेतोः ? अप्रमाणानि 25 हि कुलपुत्र बोधिसत्त्वेन कुशलमूलानि समुदानेतव्यानि । अप्रमाणा बोधिसत्त्वसंभारा उत्थापयितव्याः । अप्रमाणा बोधिचित्तहेतवः समार्जयितव्याः । अप्रमाणा नया : शिक्षितव्याः । अप्रमाणः सत्त्वधातुः परिनिर्वापयितव्यः । अप्रमाणा सत्त्वाशयधातुरनुप्रवेष्टव्या । अप्रमाणानि सत्त्वेन्द्रियाणि परिज्ञातव्यानि । अप्रमाणा सत्त्वविमुक्तिरनुवर्तयितव्या । अप्रमाणाः सत्त्वधातुचर्या अनुबोधव्याः । अप्रमाणसत्त्वविनयः कर्तव्यः । अप्रमाणाः केशानुशयाः 30 समुद्घाटयितव्यौः । अप्रमाणानि कर्मावरणानि परिशोधयितव्यानि । अप्रमाणानि दृष्टिगतानि १ Bom. अप्रमाणाः... समुद्घाटयितव्याः. गण्ड. ४६ S 457 IS 458
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy