________________
३६२
B 183
8459
गण्डव्यूहसूत्रम् ।
[५३.०निवर्तयितव्यानि । अप्रमाणाश्चित्तसंक्लेशा अपनयितव्याः । अप्रमाणाश्चित्तविशुद्धय उत्पादयितव्याः । अप्रमाणा दुःखशल्याः समुद्धारयितव्याः । अप्रमाणः सत्त्वतृष्णार्णवः समुच्छोषितव्यः । अप्रमाणमविद्यान्धकारं विधमितव्यम् । अप्रमाणाः पर्वताः प्रपातयितव्याः । अप्रमाणानि संसारवन्धनानि निर्हारयितव्यानि । अप्रमाणो जन्मसमुद्रः शोषयितव्यः । 5 अग्रमाणो भवौघस्तरितव्यः । अप्रमाणाः सत्त्वाः कामपङ्कसक्ता अभ्युद्धतेव्याः । अप्रमाणास्वैधातुकपुरनिरुद्धाः सत्त्वा निष्क्रामयितव्याः। अप्रमाणाः सत्त्वा आर्यमार्गे प्रतिष्ठापयितव्याः । अप्रमाणा रागद्वेषमोहाः प्रशमयितव्याः । अप्रमाणा मारपाशाः समतिक्रमयितव्याः । अप्रमाणानि मारकर्माणि विनिवर्तयितव्यानि । अप्रमाणो बोधिसत्त्वाध्याशयधातुः परि
शोधयितव्याः । अप्रमाणा बोधिसत्त्वप्रयोगा विवर्धयितव्याः । अप्रमाणानि बोधिसत्त्वेन्द्रियाणि 10 संजनयितव्यानि । अप्रमाणा बोधिसत्त्वाधिमुक्तयो विशोधयितव्याः । अप्रमाणा वोधिसत्त्वसमता अवतारयितव्याः । अप्रमाणो बोधिसत्त्वचर्याविशेषोऽनुसतव्यः । अप्रमाणा बोधिसत्त्वगुणाः परिशोधयितव्याः । अप्रमाणा बोधिसत्त्वचारित्रचर्याः प्रतिपूरयितव्याः । अप्रमाणानि लोकचारित्राण्यनुवर्तयितव्यानि । अप्रमाणा लोकानुवर्तनाः संदर्शयितव्याः । अप्रमाणं श्रद्धाबलं संजनयितव्यम् । अप्रमाणं वीर्यबलमुपस्तम्भयितव्यम् । अप्रमाणं स्मृतिवलं 15 परिशोधयितव्यम् । अप्रमाणं समाधिबलं परिशोधयितव्यम् । अप्रमाणं प्रज्ञाबलमुत्पादयितव्यम् । अप्रमाणमधिमुक्तिबलं दृढीकर्तव्यम् । अप्रमाणं पुण्यबलं समुपार्जयितव्यम् । अप्रमाणं ज्ञानबलं विवर्धयितव्यम् । अप्रमाणं बोधिसत्त्वबलं समुत्थापयितव्यम् । अप्रमाणं बुद्धबलं परिपूरयितव्यम् । अप्रमाणानि धर्ममुखानि प्रविचेतव्यानि । अप्रमाणा धर्मदिशः प्रवेष्टव्याः । अप्रमाणानि धर्मद्वाराणि परिशोधयितव्यानि । अग्रमाणा धर्मालोकाः 20 संजनयितव्याः । अप्रमाणो धर्मावभासः कर्तव्यः । अप्रमाणा इन्द्रियवंशा अवभासयितव्याः।
अप्रमाणाः क्लेशव्याधयः परिशोधयितव्याः । अप्रमाणानि धर्मभैषज्यानि समुदानेतव्यानि । अप्रमाणः क्लेशव्याध्यातुरः सत्त्वधातुः चिकित्सितव्यः । अप्रमाणा अमृतसंभाराः समुदानेतव्याः । अप्रमाणानि बुद्धक्षेत्राण्याक्रमितव्यानि । अप्रमाणास्तथागताः पूजयितव्याः । अप्रमाणानि बोधिसत्त्वपर्षन्मण्डलान्यवगाहयितव्यानि । अप्रमाणानि 25 तथागतशासनानि संधारयितव्यानि । अप्रमाणानि सत्त्वद्रोहिण्यानि सोढव्यानि । अप्रमाणा
अक्षणापायपथाः समुच्छेत्तव्याः । अप्रमाणानि सत्त्वसुखान्युपसंहर्तव्यानि । अप्रमाणाः सत्त्वसंग्रहाः कर्तव्याः । अप्रमाणानि धारणीमुखानि परिशोधयितव्यानि । अप्रमाणानि प्रणिधानमुखान्यभिनिर्हर्तव्यानि । अप्रमाणानि महामैत्रीमहाकरुणाबलानि परिभावयि
तव्यानि । अप्रमाणानि धर्मपर्येष्टयभियोगानि न प्रतिप्रसम्भयितव्यानि । अप्रमाणानि 80 निध्यप्तिबलान्यनुसतव्यानि । अप्रमाणा अभिज्ञाभिनिर्हारा उत्पादयितव्याः । अप्रमाणा विद्याज्ञानालोका विशोधयितव्याः । अप्रमाणा सत्त्वगतिरनुगन्तव्या । अप्रमाणा भवोत्पत्तिः
Som अप्रमाणा...शोषयितव्यः