________________
-५३.०]
५३ श्रीसंभवः श्रीमतिश्च । परिग्रहीतव्या । अप्रमाणा कायविभक्तिः संदर्शयितव्या । अप्रमाणा मन्त्रविभक्तिः परिज्ञातव्या । अप्रमाणाः सत्त्वैचित्तविमात्रता अनुप्रवेष्टव्याः । विस्तीर्णो बोधिसत्त्वगोचरोऽनुप्रवेष्टव्यः । विपुलं बोधिसत्त्वभवनमनुविचरितव्यम् । गम्भीरो बोधिसत्त्वविहारो व्यवलोक- 460 यितव्यः । दुरनुबोधो बोधिसत्त्वविपयोऽनुवोद्धव्यः । दुर्गमा बोधिसत्त्वगतिर्गन्तव्या ।। दुरासदा वोधिसत्त्ववेगाः संधारयितव्याः । दुरवक्रामो बोधिसत्त्वनियामोऽवक्रमितव्यः । । विचित्रा बोधिसत्त्वचर्या अनुवोद्धव्या । सर्वत्रानुगतं वोधिसत्त्वविकुर्वणं संदर्शयितव्यन् । अभिसंभिन्ना बोधिसत्त्वेन धर्ममेघाः संप्रत्येष्टव्याः । अनन्तमध्यं बोधिसत्त्वचर्याजालं प्रविस्तरितव्यम् । अपर्यन्ता बोधिसत्त्वेन पारमिताः परिपूरयितव्याः । अप्रमेयाणि बोधिसत्त्वेन व्याकरणानि संप्रत्येष्टव्यानि । असंख्येयानि बोधिसत्त्वेन क्षान्तिमुग्वान्यवतर्तव्यानि । असंख्येया बोधिसत्त्वेन भूमयः परिशोधयितव्याः । असमन्तानि बोधिसत्त्वेन धर्ममुखानि 10 पर्यवदापयितव्यानि । अनभिलाप्यानि बोधिसत्त्वेन बुद्धक्षेत्राणि परिशोधयितव्यानि । अपर्यन्तान् वोधिसत्त्वेन कल्पान् संनाहः संनद्धव्यः। अमाप्या बोधिसत्त्वेन तथागताः पूजयितव्याः। अचिन्त्या वोधिसत्त्वेन प्रणिधानाभिनिर्हारा अभिनिहर्तव्याः। संक्षिप्तेन कुलपुत्र सर्वसत्त्वसमोक्ता बोधिसत्त्वानां चर्या सत्त्वपरिपाचनतया । सर्वकल्पसमोक्ता सर्वकल्पसंवसनतया । सर्वोपपत्तिसमोक्ता सर्वत्रजन्मसंदर्शनेन । सर्वाध्वसमोक्ता त्र्यध्वज्ञानानुवोधाय। सर्वधर्मसमोक्ता 15 तत्प्रतिपत्त्या । सर्वक्षेत्रसमोक्ता तत्परिशोधनेन । सर्वप्रणिधानसमोक्ता तत्परिपूरणतया । सर्वबुद्धसमोक्ता तत्पूजाभिनिर्हारेण । सर्ववोधिसत्त्वसमोक्ता तत्प्रणिधानैकत्वेन । सर्वकल्याणमित्रसमोक्ता बोधिसत्त्वानां चर्या तदारागणतया ।।
___तस्मात्तर्हि कुलपुत्र न ते परिखेद उत्पादयितव्यः कल्याणमित्रपरिमार्गणासु । न परितृप्तिरुत्पादयितव्या कल्याणमित्रसंदर्शनेषु । न परितुष्टिरापत्तव्या कल्याणमित्रपरिपृच्छासु । 20 नाशयो विनिवर्तयितव्यः कल्याणमित्रसंसर्गेषु । न प्रयोगः प्रतिप्रत्रम्भयितव्यः कल्याणमित्रगौरवोपस्थानेषु । न विलोमग्राहिणा भवितव्यं कल्याणमित्राववादानुशासनीषु । न संशय उत्पादयितव्यः कल्याणमित्रगुणप्रतिलाभेषु । न विचिकित्सा करणीया कल्याणमित्र- 5 461 निर्याणमुखसंदर्शनेषु । न दोषोत्पादनं करणीयं कल्याणमित्रोपायसंधिलोकानुवर्तनप्रतिचारेषु । न कायचित्तविनिवर्तनं करणीयं कल्याणमित्रप्रसादविवर्धनेषु । तत्कस्य हेतोः ? 25 कल्याणमित्राधीनाः कुलपुत्र बोधिसत्त्वानां सर्वबोधिसत्त्वचर्याश्रवाः । कल्याणमित्रप्रभवाः सर्वबोधिसत्त्वगुणपरिनिष्पत्तयः। कल्याणमित्रप्रभवाणि सर्वबोधिसत्त्वप्रणिधानस्रोतांसि । कल्याणमित्रजनितानि सर्वबोधिसत्त्वकुशलमूलानि । कल्याणमित्रोत्थापिताः सर्वबोधिसत्त्वसंभाराः । कल्याणमित्रनिर्याताः सर्वबोधिसत्त्वधर्ममुखालोकाः । कल्याणमित्रसंभूताः सर्वबोधिनिर्याणमुखविशुद्धयः । कल्याणमित्रप्रतिबद्धाः सर्वबोधिसत्त्वशिक्षाप्रतिपत्तयः । 30 कल्याणमित्रप्रतिष्ठिताः सर्वबोधिसत्त्वगुणधर्माः । कल्याणमित्रमूलाः सर्वबोधिसत्त्वाध्याशय- B 184
-
खचित्त. २B°चर्याश्रयाः,