________________
8462
३६४ गण्डव्यूहसूत्रम् ।
[५३.०परिशुद्धयः । कल्याणमित्रसंजाता सर्वबोधिसत्त्वचित्तोत्पाददृढता । कल्याणमित्रनेत्रिकाः सर्ववोधिसत्त्वसमुद्रधारणीप्रतिभानमुखालोकाः। कल्याणमित्रसंधारिताः सर्वबोधिसत्त्वविशुद्धिमुखकोशाः । कल्याणमित्रसंजनिताः सर्वबोधिसत्त्वज्ञानालोकाः । कल्याणमित्रहस्तगता सर्वबोधिसत्त्वप्रणिधानवैशेषिकता । कल्याणमित्रप्रधान एकोतीभावः । कल्याणमित्रगोत्राः 5 सर्वबोधिसत्त्वसमुदागमवैशेषिकश्रद्धाः । कल्याणमित्रकोशगतानि सर्वबोधिसत्त्वगुह्यस्थानानि । कल्याणमित्राकराः सर्वबोधिसत्त्वधर्माकराः । कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वेन्द्रियवेगाकुराः । कल्याणमित्रविवर्धिताः सर्वबोधिसत्त्वज्ञानसागराः । कल्याणमित्रप्रतिपालिताः सर्वबोधिसत्त्वनिधानकोशाः। कल्याणमित्ररक्षिताः सर्वबोधिसत्त्वपुण्योपचयाः। कल्याणमित्रजनिताः सर्वबोधिसत्त्वजन्मविशुद्धयः । कल्याणमित्रमुखागताः सर्वबोधिसत्त्वधर्ममेघाः । 10 कल्याणमित्रकोष्ठगताः सर्वबोधिसत्त्वनिर्याणपथप्रवेशाः । कल्याणमित्राराधनप्रतिलब्धा सर्वबुद्धबोधिः । कल्याणमित्रसंगृहीताः सर्वबोधिसत्त्वचर्याः । कल्याणमित्रोक्ष्योतिताः सर्वबोधिसत्वगुणोद्भावनाः । कल्याणमित्रसंदर्शिताः सर्वबोधिसत्त्वदिगनुगमाः। कल्याणमित्रसंवर्णिता सर्वबोधिसत्त्वचित्ताध्याशयमहात्मता । कल्याणमित्रसंभूतं बोधिसत्त्वानां महामैत्रीबलम् ।
कल्याणमित्रसंजनितं बोधिसत्त्वानां महाकरुणावलम् । कल्याणमित्रसंगृहीतानि सर्वबोधि15 सत्त्वाधिपत्यानि । कल्याणमित्रसंजनितानि सर्ववोध्यङ्गानि । कल्याणमित्रसंभवाः सर्वबोधि
सत्त्वहितोपसंहाराः। कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु । कल्याणमित्रपरिगृहीता वोधिसत्त्वा न निवर्तन्ते महायानात् । कल्याणमित्रसमन्वाहता बोधिसत्त्वा नातिक्रामन्ति बोधिसत्त्वशिक्षाम् । कल्याणमित्रखारक्षिता बोधिसत्त्वा न
गच्छन्ति पापमित्रवशम् । कल्याणमित्रपरिपालिता बोधिसत्त्वा न परिहीयन्ते बोधिसत्त्व20 धर्मेभ्यः । कल्याणमित्रसंगृहीता बोधिसत्त्वा अतिक्रामन्ति पृथग्जनभूमिम् । कल्याणमित्रानुशिक्षिता बोधिसत्त्वा नावक्रामन्ति श्रावकप्रत्येकबुद्धनिपातम् । कल्याणमित्रप्रतिच्छन्ना बोधिसत्त्वा अभ्युद्गता भवन्ति लोकात् । कल्याणमित्रसंवर्धिता बोधिसत्त्वा अनुपलिप्ता भवन्ति लोकधर्मैः । कल्याणमित्रपर्युपासिता बोधिसत्त्वा असंप्रमोषचारिणो भवन्ति सर्वचर्यासु । कल्याणमित्रोत्थापिता बोधिसत्त्वा न निवर्तन्ते सर्वारम्भेभ्यः । कल्याणमित्र26 परिगृहीता बोधिसत्त्वा दुर्धर्षा भवन्ति कर्मक्लेशैः । कल्याणमित्रबलोपस्तब्धा बोधिसत्त्वा
अनवमी भवन्ति सर्वमारैः । कल्याणमित्रोपनिश्रयविहारिणो बोधिसत्त्वां विवर्धन्ते सर्वबोध्यङ्गैः । तत्कस्य हेतोः ? विशोधकानि कुलपुत्र कल्याणमित्राण्यावरणीयानां विनिवर्तकानि । कल्याणमित्राण्यपायेभ्यः संबोधनानि । कल्याणमित्राण्यकरणीयानां संनिवारकानि प्रमादस्थानेभ्यः । विधमितारोऽविद्यान्धकारस्य । निर्दारयितारो दृष्टिबन्धनानाम् । निष्काम30 यितारः संसारात् । उत्खाटयितारो लोकनिकेतात् । निर्मोचयितारो मारपाशेभ्यः ।
समाळहयितारो दुःशल्यानाम् । परिमोचयितारः अज्ञानगहनात् । समतिक्रामयितारो दृष्टिकान्तारात् । उत्तारयितारो भवौधेभ्यः । उद्धर्तारः कामपङ्कात् । विनिवर्तयितारः