________________
- ५३.० ]
५३ श्रीसंभवः श्रीमतिश्च ।
३१५
कुमार्गात् । संदर्शयितारो वोधिसत्त्वमार्गस्य । नियोजयितारो वोधिसत्त्वसमादानेन । प्रतिष्ठापयितारः प्रतिपत्तिषु । प्रणेतारः सर्वज्ञतागमनदिशम् । विशोधयितारः प्राचक्षुपः । विवर्धयितारो बोधिचित्तस्य । संजनयितारो महाकरुणायाः । आख्यातारः चर्यायाः । अववादितारः पारमितासु । प्रतियापयितारः भूमिपु | विभजितारः क्षान्तीनान् । संभावयितारः सर्वकुशलमूलानाम् । उत्थापयितारः सर्वसंभाराणाम् । दातारः सर्ववोधिसत्त्वगुणानाम् । संप्रापयितारः सर्वबुद्धपादमूलेषु । संदर्शयितारः सर्वगुणेपु । समादापयितारः अर्थेषु । समुत्तेजयितारः प्रतिपत्तिषु । निदर्शयितारो निर्याणमुखानाम् । आरक्षितारः प्रणाशपथेभ्यः। अत्रभासयितारो धर्मालोकमुखानाम् | अभिप्रवर्षयितारो धर्मश्रवणमेघानाम् । नाशयितारः सर्वक्लेशानाम् । विनिवर्तयितारः सर्वदृष्टिकृतानाम् । निवेशयितारः सर्वबुद्धधर्मेषु ॥
अपि च कुलपुत्र मातृभूतानि कल्याणमित्राणि वुद्धकुलेषु जनयित्रीणि । पितृ - 10 भूतानि कल्याणमित्राणि विपुलहितोपसंहरणतया । धात्रीभूतानि कल्याणमित्राणि सर्वपापारक्षणतया । आचार्यभूतानि कल्याणमित्राणि वोधिसत्त्वशिक्षानुबोधनतया । दैशिकभूतानि कल्याणमित्राणि पारमितामार्गावतरणतया । वैद्यभूतानि कल्याणमित्राणि केशव्याधिपरिमोचनतया । हिमवत्पर्वतभूतानि कल्याणमित्राणि ज्ञानौषधिविवर्धनतया । शूरभूतानि कल्याणमित्राणि सर्वभयारक्षणतया । दाशभूतानि कल्याणमित्राणि संभारमहौ घोत्तरणतया । 15 कर्णधारभूतानि कल्याणमित्राणि सर्वज्ञज्ञानरत्नद्वीपसंप्रापणतया ॥
तस्मात्तर्हि कुलपुत्र एवं मनसिकारात् प्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि पृथिवीसमचित्तेन सर्वभारवहनापरिणमनतया । वज्रसमचित्तेनाभेद्याशयतया । चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया । समचित्तेन यथेष्टाज्ञाकरणतया । शिष्यसमचित्तेन सर्वाज्ञाविलोमनतया । लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया । ५० धात्री समचित्तेन सर्वक्शापरितमनतया । भृत्यसमचित्तेन किंकरणीप्रदक्षिणग्राहतया । रजोपहरणसमचित्तेन मानातिमानविवर्जनतया । पूर्णचन्द्रसमचित्तेन कालाकालानामावमनतया । आजानेयाश्वसमचित्तेन सर्वखटुकताविवर्जनतया । यानसमचित्तेन गुरुभारवहन - तया । नागसमचित्तेन दान्ताजानेयचित्ततया । शैलसमचित्तेन अचलाकम्प्यतया । श्वसमचित्तेन अक्रोधनतयां । चण्डालकुमारकसमचित्तेन निर्माननिरहंकारतया । छिन्न- 25 विषाणर्षभसमचित्तेन सर्वदर्पविगतेन । अन्तेवासिसमचित्तेनानतिमानतया । नौसमचित्तेन गमनागमनापरिखिन्नतया । सेतुसंक्रमचित्तेन कल्याणमित्राज्ञोत्तरणतया । सुपुत्रसमचित्तेन कल्याणमित्रमुखोदीक्षणतया । राजकुमारसमचित्तेन धर्मराजाज्ञाप्रतिवहनतया ॥
आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा । आत्मनि च ते कुलपुत्र अध्वगत - 90 संज्ञोत्पादयितव्या, कल्याणमित्रेषु दैशिकसंज्ञोत्पादयितव्या, अनुशासनीषु मार्गसंज्ञा, प्रति
१ Bom. कल्याण... कल्याणमित्राणि.
S 463
B 185
S464