________________
1465
गण्डव्यूहसूत्रम् ।
[५३.०पत्तिषु क्षेत्रदिग्गमनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र पारगसंज्ञोत्पादयितव्या, कल्याणमित्रेषु नाविकसंज्ञा, अनुशासनीषु तीर्थसंज्ञा, प्रतिपत्तिषु नौसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र कर्षकसंज्ञोत्पादयितव्या, कल्याणमित्रेषु भुजगेन्द्रसंज्ञा, अनुशासनीषु वर्षसंज्ञा, प्रतिपत्तिषु शस्यनिष्पत्तिसंज्ञोत्पादयितव्या । आत्मनि च ते 5 कुलपुत्र दरिद्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैश्रवणसंज्ञा, अनुशासनीषु धनसंज्ञा, प्रतिपत्तिषु दारिद्यापनयनसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र अन्तेवासिकसंज्ञोत्पादयितव्या, कल्याणमित्रेष्वाचार्यसंज्ञा, अनुशासनीषु शिल्पसंज्ञा, प्रतिपत्तिष्वधिगमनसंज्ञोत्पादयितव्या। आत्मनि च ते कुलपुत्र अभीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा,
अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञोत्पादयितव्या । आत्मनि च ते 10 कुलपुत्र वणिक्संज्ञोत्पादयितव्या, कल्याणमित्रेषु कर्णधारसंज्ञा, अनुशासनीषु रत्नसंज्ञा, प्रतिपत्तिषु रत्नग्रहणसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र सत्पुत्रसंज्ञोत्पादयितव्या, कल्याणमित्रेषु मातापितृसंज्ञा, अनुशासनीपु कुलवृत्तिसंज्ञा, प्रतिपत्तिषु वृत्त्यविप्रणाशसंज्ञोत्पादयितव्या । आत्मनि च ते कुलपुत्र राजकुमारसंज्ञोत्पादयितव्या, कल्याणमित्रेषु धर्म
राजाग्रामात्यसंज्ञा, अनुशासनीषु राजशिक्षा, प्रतिपत्तिषु ज्ञानराजमकुटालंकारधर्मपट्टशिरो15 वन्धनधर्मराजनगरव्यवलोकनसंज्ञोत्पादयितव्या । एवं चित्तसंज्ञामनसिकारपरिभावितेन कुलपुत्र कल्याणमित्राण्युपसंक्रमितव्यानि । तत्कस्य हेतोः ? एवं कल्याणमित्राध्याशयपरिशुद्धा हि कुलपुत्र बोधिसत्त्वाः कल्याणमित्राज्ञासु प्रतिपद्यमाना विवर्धन्ते सर्वकुशलमूलैः हिमवत्संनिश्रिता इव तृणगुल्मौषधिवनस्पतयः । भाजनीभवन्ति सर्वबुद्धधर्माणां महासागर
इव जलस्य । आकरीभवन्ति सर्वगुणानां महासमुद्र इव रत्नानाम् । उत्तापयन्ति बोधि20 चित्तं सुवर्णमिवाग्निसंतापे । अभ्युद्गता भवन्ति लोकात् , सुमेरुरिव सागरात् । अनुपलिप्ता भवन्ति लोकधर्में:, पद्ममिव जलेन । संवसन्ति सर्वदुश्चरितैः, महासागर इव पूतिकुणपेन । विवर्धन्ते शुक्लधर्मैः, चन्द्र इव शुक्लपक्षे । अवभासयन्ति धर्मधातुं सूर्य इव जम्बुद्वीपम् । प्रवर्धयन्ति बोधिसत्त्वप्रणिधानशरीराणि कुमारका इव मातृपितृनिश्रिताः । संक्षिप्तेन
कुलपुत्र कल्याणमित्रानुशासनीषु प्रतिपन्ना बोधिसत्त्वा दशानभिलाप्यगुणकोटीनियुतशत25 सहस्राणि प्रतिगृह्णन्ति । दशाध्याशयकोटीनियुतशतसहस्राणि परिशोधयन्ति । दश बोधि
सत्त्वेन्द्रियकोटीनियुतशतसहस्राणि विवर्धयन्ति । दशाधिष्ठानकोटीनियुतशतसहस्राणि विशोधयन्ति । चरणीयधर्मासंख्येयशतसहस्राणि परिशोधयन्ति । दश मारासंख्येयशतसहस्राणि समतिकामन्ति । दश धर्ममुखद्वारासंख्येयशतसहस्राणि प्रतिवसन्ति । दशसंभारविशुद्धिमुखासंख्येयकोटीनियुतशतसहस्राणि परिपूरयन्ति । दश चर्यासंख्येयशतसहस्राणि परिपूर30 यन्ति । दश चर्यासंख्येयशतसहस्राणि पर्यवदापयन्ति । दश महाप्रणिधानासंख्येयशतसहस्राण्यभिनिर्हरन्ति । संक्षिप्तेन कुलपुत्र सर्वबोधिसत्त्वचर्याः सर्वबोधिसत्त्वपारमिताः सर्वबोधिसत्त्वभूमयः सर्वबोधिसत्त्वसमाधिमुखानि सर्वबोधिसत्त्वाभिज्ञाज्ञानविकुर्वितानि सर्वबोधि
8466