SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ५२ शिवरायः। अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण धर्मग्रामं गत्वा येन शिवराम्रो ब्राह्मणः, तेनोपसंक्रम्य शिवराग्रस्य ब्राह्मणस्य पादौ शिरसाभिवन्ध पुरतः प्राञ्जलिः स्थित्वा एवमाहमया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामव- । वादानुशासनीं ददादीति । तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ सोऽवोचत्-अहं कुलपुत्र सत्याधिष्ठानेन चरामि । येन सत्येन सत्यवचनेन त्र्यध्वसु न कश्चिद्वोधिसत्त्वोऽनुत्तरायाः सम्यक्संवोधेर्विवृत्तः, न विवर्तते, न विवर्तिष्यति, तेन सत्यवचनाधिष्ठानेन इदं च मे कार्य समृध्यविति । तन्मे यथाभिप्रायं सर्व समृध्यति । 10 एतेनाहं कुलपुत्र सत्यवचनाधिष्ठानेन सर्वकार्याणि साधयामि । एतमहं कुलपुत्र सत्याधिष्ठानं जानामि । किं मया शक्यं सत्यानुपरिवर्तनी वाक्प्रतिलब्धानां बोधिसत्त्वानां चाँ ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, इयमिहैव दक्षिणापथे सुमनामुखं नाम नगरम् । तत्र श्रीसंभवो नाम दारकः प्रतिवसति, श्रीमतिश्च नाम दारिका । तावुपसंक्रम्य परिपृच्छ कथं वोधिसत्त्वेन 15 बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ ___ अथ खलु सुधनः श्रेष्ठिदारको महाधर्मगौरवमुत्पाद्य शिवराग्रस्य ब्राह्मणस्य पादौ शिरसाभिवन्ध शिवराग्रं ब्राह्मणमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनःपुनरवलोक्य शिवराग्रस्य ब्राह्मणस्यान्तिकात्प्रक्रान्तः ॥ ५० ॥ S 455
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy