SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ B 181 8454 ५१ अजितसेनः। अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण रोरुकं नगरं गत्वा येन अजितसेनो नाम गृहपतिस्तेनोपसंक्रम्य अजितसेनस्य गृहपतेः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि-कथं 5 बोधिसत्त्वेन बोधिसत्त्वर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ आह-मया कुलपुत्र अक्षयलक्षणो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य सहप्रतिलम्भादक्षयबुद्धदर्शननिधानप्रतिलाभो भवति ।। 10 गच्छ कुलपुत्र इयमिहैव दक्षिणापथे धर्मग्रामे शिवराम्रो नाम ब्राह्मणः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ अथ खल सुधनः श्रेष्ठिदारकोऽजितसेनस्य गृहपतेः पादौ शिरसाभिवन्द्य अजितसेनं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अजितसेनस्य गृहपतेरन्तिकाअक्रान्तः ॥ ४९॥ १३ विधान. २ B शिविरामो.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy