SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ५० सुचन्द्रः। अथ खलु सुधनः श्रेष्ठिदारको येन सुचन्द्रो गृहपतिः, तेनोपसंक्रम्य सुचन्द्रस्य गृहपतेः पादौ शिरसाभिवन्ध पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि-कथं वोधिसत्त्वेन बोधिमत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो वोधिसत्त्वानामववादानुशासनी । ददातीति । तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ आह-मया कुलपुत्र विमलज्ञानप्रभो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः । एतमहं कुलपुत्र विमलज्ञानप्रभं वोधिसत्त्वविमोक्षं जानामि । किं मया शक्यमप्रमाणविमोक्षप्रतिलब्धानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे रोरुकं नाम नगरम् । तत्र अजितसेनो नाम गृहपतिः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं वोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ ___ अथ खलु सुधनः श्रेष्ठिदारकः सुचन्द्रस्य गृहपतेः पादौ शिरसाभिवन्ध सुचन्द्रं गृहपतिमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुचन्द्रस्य गृहपतेरन्तिका- 15 प्रक्रान्तः॥४८॥ 10
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy