________________
४९ मुक्तासारः। अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण दक्षिणापथं गत्वा येन भरुकच्छे नगरे मुक्तासारो हैरण्यकः, तेनोपसंक्रम्य मुक्तासारहैरण्यकस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि 5 कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
सोऽवोचत्-अहं कुलपुत्र असङ्गस्मृतिव्यूह नाम बोधिसत्त्वविमोक्षं जानामि । अप्रतिप्रनब्धा च मे दशसु दिक्षु सर्वतथागतपादमूलेषु धर्मपर्येष्टिः। एतमहं कुलपुत्र असङ्ग10 स्मृतिव्यूह बोधिसत्त्वविमोक्षं जानामि, प्रजानामि । किं मया शक्यं वोधिसत्त्वानामच्छम्भितसिंहनादनादिनां महापुण्यज्ञानप्रतिष्ठितानां चयाँ ज्ञातुं गुणान् वा वक्तुम् ॥
गच्छ कुलपुत्र, अयमिहैव भरुकच्छे नगरे सुचन्द्रो नाम गृहपतिः प्रतिवसति । तदवभासितमस्य गृहम् । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥ 15 अथ खलु सुधनः श्रेष्ठिदारको मुक्तासारस्य हैरण्यकस्य पादौ शिरसाभिवन्द्य मुक्ता
सारं हैरण्यकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृल्य पुनः पुनरवलोक्य मुक्तासारस्य हैरण्यकस्यान्तिकात्प्रक्रान्तः ॥ १७॥
8453
tok