________________
४८ भद्रोत्तमा। अथ खलु सुधनः श्रेष्ठिदारको येन केवलके जनपदे वर्तनकं नगरम् , येन च भद्रोत्तमोपासिका, तेनोपजगाम । उपेत्य भद्रोत्तमाया उपासिकायाः पादौ शिरसाभिवन्द्य भद्रोत्तमामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृल्य भद्रोत्तमाया उपासिकायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च । जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्या-कथं बोधिसत्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
सा अवोचत्-अहं कुलपुत्र अनालयमण्डलं नाम धर्मपर्यायं जानामि देशयामि । अधिष्ठानश्च मे समाधिः प्रतिलब्धः । न तत्र समाधौ कस्यचिद्धर्मस्याधिष्ठानम् । तत्र 10 5 452 सर्वज्ञताचक्षुः प्रवर्ततेऽधिष्ठानं सर्वज्ञताश्रोत्रम् । अधिष्टानं सर्वज्ञताघ्राणम् , अधिष्ठानं सर्वज्ञताजिह्वा, अधिष्ठानः सर्वज्ञताकायः, अधिष्टानं तत्र सर्वज्ञतामनः प्रवर्तते, अधिष्ठाना सर्वज्ञतोर्मिः, अधिष्ठाना सर्वज्ञताविद्युत् , अधिष्ठानाः सर्वज्ञतावेगाः प्रवर्तन्ते जगद्रोचनामण्डलाः । एतमहं कुलपुत्र, अनालयमण्डलं धर्मपर्यायं जानामि । किं मया शक्यमसङ्गबोधिसत्त्वचर्या सकला ज्ञातुम् ?
गच्छ कुलपुत्र दक्षिणापथे । तत्र भरुकच्छं नाम नगरम् । तत्र मुक्तासारो नाम हैरण्यकः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
अथ खलु सुधनः श्रेष्ठिदारको भद्रोत्तमाया उपासिकायाः पादौ शिरसाभिवन्ध भद्रोत्तमामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य भद्रोत्तमाया 20 उपासिकाया अन्तिकायकान्तः ॥ ४६॥
15
40
१B हैरण्यिकः throughout.