Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 406
________________ S 470 8 471 B 188 ૨૭૦ गण्डव्यूह सूत्रम् । [ ५४.० वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्तात् प्रणिपातितः । सुचिरमतिनमय्य अचिन्त्यकुशलमूलवेगाभिष्यन्दितसंतानः प्रह्लादितकायचित्तः ततः कूटागारद्वारमूलादुत्थाय मुहूर्तमनिमिषाभ्यां नेत्राभ्यां वैरोचनव्यूहालंकारगर्भं महाकूटागारं संप्रेक्ष्य कृताञ्जलिपुटोsनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य एवंसंज्ञामनसिकारसंप्रेषितचित्तो वाचमभाषत - अयं स 5 शून्यतानिमित्ताप्रणिहितविहारविहारिणामावासः । अयं स सर्वधर्माविकल्पविहारविहारिणामावासः। धर्मधात्वसंभेदविहारविहारिणां सत्त्वधात्त्वनुपलम्भविहारविहारिणां सर्वधर्मानुत्पादविहारविहारिणां सर्वलोकानिकेतविहारविहारिणां सर्वजगदालयानिलयविहारविहारिणां सर्वावसिञ्चितविहारविहारिणां सर्वापाश्रयानिश्रितविहारविहारिणां सर्वसमुच्छ्रयानिश्रितबिहारविहारिणां सर्वक्लेशसंज्ञागतविधूतविहारविहारिणां सर्वधर्मास्वभावविहारविहारिणां सर्वकल्प - 10 विकल्पाविकल्पविहारविहारिणां सर्वसंज्ञाचित्तमनोविविक्तविहारविहारिणां सर्वसंज्ञानायूहनिर्यूहबिहारविहारिणां गम्भीरप्रज्ञापारमिताप्रवेशविहारविहारिणां समन्तमुखधर्मधातुस्फरणोपायविहारविहारिणां समन्तक्लेशशान्तोपायविहारविहारिणां सर्वदृष्टितृष्णामानप्रहीणप्रज्ञोत्तरविहारिणां सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्योत्पाद विक्रीडित विहारविहारिणां सर्वबोधिसत्त्वसमाधिगोचर भावनाविहारविहारिणामयं सर्वबुद्धपादमूलोपनिश्रितविहारविहारिणामावासः 15 ये ते एककल्प सर्वकल्प सर्वकल्पैककल्पानुप्रवेशविहारविहारिणः । ये ते एक क्षेत्रसर्वक्षेत्रैकक्षेत्रासंभेदविहारविहारिणः । ये ते एकधर्म सर्वधर्म सर्वधर्मैक धर्माविरोधविहारविहारिणः । ये ते एकसत्त्वसर्वसत्त्वैकसत्त्वानानात्वविहारविहारिणः । ये ते एकबुद्धसर्वबुद्धसर्वबुद्धकबुद्धाद्वयविहारविहारिणः । ये ते सर्वार्थैकक्षणप्रवेशविहारविहारिणः । ये ते सर्वक्षेत्रैकचित्तोत्पादगमनविहारविहारिणः । ये ते सर्वसत्त्वभवनप्रतिभासविहारविहारिणः । ये ते सर्वलोकहित20 सुखचित्तविहारविहारिणः । ये ते सर्वस्वाधीनप्रतिलम्भविहारविहारिण:, तेषामयं विहारः । ये ते लोकनि केतोञ्चलिताश्च सर्वजगद्भवनेषु संदृश्यन्ते सर्वसत्त्वपरिपाचनाय । ये ते सर्वक्षेत्रानिश्रिताश्च सर्वक्षेत्रेषु च अनुविचरन्ति तथागतपूजाकर्मणे । ये ते सर्वक्षेत्राणि च अनुविचरन्ति सर्वबुद्धक्षेत्रव्यूहपरिग्रहणतायै, न च स्थानाद्विचरन्ति । ये ते सर्वतथागतपादमूलगताश्च बुद्धसंज्ञाभिनिवेशविगताश्च । ये ते सर्वकल्याणमित्रोपनिश्रयविहारविहारिणश्च न चैषां सर्वजगति समसमोऽस्ति 25 ज्ञानेन । ये ते सर्वमार भवनविहारविहारिणश्च कामगुणरतिविप्रयुक्ताश्च । ये ते सर्वसंज्ञागतप्रवेशविहारविहारिणश्च सर्वसंज्ञागतविधूतमानसाश्च । ये ते सर्वजगच्छरीरानुगतकायाश्च न चात्मसत्त्वद्वयविहारिणः । ये ते सर्वलोकधात्वन्तर्गतकाया न च धर्मधातुसंभेदविहारिणः । ये ते सर्वानागतकल्पवासप्रणिधानाश्च न च दीर्घ ह्रस्वकल्पसंज्ञागतविहारविहारिणः । कालपाश्च न चलन्ति, सर्वलोकधातुषु च संदृश्यन्ते तेषामयं दुरासदधर्म30 दिगनुप्रवेशविहारविहारिणां दुराज्ञेयविहारविहारिणां गम्भीरविहारविहारिणाम् अद्वयविहारविहारिणाम् अलक्षणविहारविहारिणां निःप्रतिपक्षविहारविहारिणाम् अनुपलम्भविहारविहा । ये १ B om. तेषामर्थं बिहार:.

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491