________________
S 470
8 471
B 188
૨૭૦
गण्डव्यूह सूत्रम् ।
[ ५४.०
वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्तात् प्रणिपातितः । सुचिरमतिनमय्य अचिन्त्यकुशलमूलवेगाभिष्यन्दितसंतानः प्रह्लादितकायचित्तः ततः कूटागारद्वारमूलादुत्थाय मुहूर्तमनिमिषाभ्यां नेत्राभ्यां वैरोचनव्यूहालंकारगर्भं महाकूटागारं संप्रेक्ष्य कृताञ्जलिपुटोsनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य एवंसंज्ञामनसिकारसंप्रेषितचित्तो वाचमभाषत - अयं स 5 शून्यतानिमित्ताप्रणिहितविहारविहारिणामावासः । अयं स सर्वधर्माविकल्पविहारविहारिणामावासः। धर्मधात्वसंभेदविहारविहारिणां सत्त्वधात्त्वनुपलम्भविहारविहारिणां सर्वधर्मानुत्पादविहारविहारिणां सर्वलोकानिकेतविहारविहारिणां सर्वजगदालयानिलयविहारविहारिणां सर्वावसिञ्चितविहारविहारिणां सर्वापाश्रयानिश्रितविहारविहारिणां सर्वसमुच्छ्रयानिश्रितबिहारविहारिणां सर्वक्लेशसंज्ञागतविधूतविहारविहारिणां सर्वधर्मास्वभावविहारविहारिणां सर्वकल्प - 10 विकल्पाविकल्पविहारविहारिणां सर्वसंज्ञाचित्तमनोविविक्तविहारविहारिणां सर्वसंज्ञानायूहनिर्यूहबिहारविहारिणां गम्भीरप्रज्ञापारमिताप्रवेशविहारविहारिणां समन्तमुखधर्मधातुस्फरणोपायविहारविहारिणां समन्तक्लेशशान्तोपायविहारविहारिणां सर्वदृष्टितृष्णामानप्रहीणप्रज्ञोत्तरविहारिणां सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्योत्पाद विक्रीडित विहारविहारिणां सर्वबोधिसत्त्वसमाधिगोचर भावनाविहारविहारिणामयं सर्वबुद्धपादमूलोपनिश्रितविहारविहारिणामावासः 15 ये ते एककल्प सर्वकल्प सर्वकल्पैककल्पानुप्रवेशविहारविहारिणः । ये ते एक क्षेत्रसर्वक्षेत्रैकक्षेत्रासंभेदविहारविहारिणः । ये ते एकधर्म सर्वधर्म सर्वधर्मैक धर्माविरोधविहारविहारिणः । ये ते एकसत्त्वसर्वसत्त्वैकसत्त्वानानात्वविहारविहारिणः । ये ते एकबुद्धसर्वबुद्धसर्वबुद्धकबुद्धाद्वयविहारविहारिणः । ये ते सर्वार्थैकक्षणप्रवेशविहारविहारिणः । ये ते सर्वक्षेत्रैकचित्तोत्पादगमनविहारविहारिणः । ये ते सर्वसत्त्वभवनप्रतिभासविहारविहारिणः । ये ते सर्वलोकहित20 सुखचित्तविहारविहारिणः । ये ते सर्वस्वाधीनप्रतिलम्भविहारविहारिण:, तेषामयं विहारः । ये ते लोकनि केतोञ्चलिताश्च सर्वजगद्भवनेषु संदृश्यन्ते सर्वसत्त्वपरिपाचनाय । ये ते सर्वक्षेत्रानिश्रिताश्च सर्वक्षेत्रेषु च अनुविचरन्ति तथागतपूजाकर्मणे । ये ते सर्वक्षेत्राणि च अनुविचरन्ति सर्वबुद्धक्षेत्रव्यूहपरिग्रहणतायै, न च स्थानाद्विचरन्ति । ये ते सर्वतथागतपादमूलगताश्च बुद्धसंज्ञाभिनिवेशविगताश्च । ये ते सर्वकल्याणमित्रोपनिश्रयविहारविहारिणश्च न चैषां सर्वजगति समसमोऽस्ति 25 ज्ञानेन । ये ते सर्वमार भवनविहारविहारिणश्च कामगुणरतिविप्रयुक्ताश्च । ये ते सर्वसंज्ञागतप्रवेशविहारविहारिणश्च सर्वसंज्ञागतविधूतमानसाश्च । ये ते सर्वजगच्छरीरानुगतकायाश्च न चात्मसत्त्वद्वयविहारिणः । ये ते सर्वलोकधात्वन्तर्गतकाया न च धर्मधातुसंभेदविहारिणः । ये ते सर्वानागतकल्पवासप्रणिधानाश्च न च दीर्घ ह्रस्वकल्पसंज्ञागतविहारविहारिणः । कालपाश्च न चलन्ति, सर्वलोकधातुषु च संदृश्यन्ते तेषामयं दुरासदधर्म30 दिगनुप्रवेशविहारविहारिणां दुराज्ञेयविहारविहारिणां गम्भीरविहारविहारिणाम् अद्वयविहारविहारिणाम् अलक्षणविहारविहारिणां निःप्रतिपक्षविहारविहारिणाम् अनुपलम्भविहारविहा
।
ये
१ B om. तेषामर्थं बिहार:.