________________
-५४.०]
५४ मैत्रेयः। रिणां निष्प्रपञ्चविहारविहारिणां महामैत्रीमहाकरुणाविहारविहारिणां सर्वश्रावकप्रत्येकबुद्धदुरवगाहविहारविहारिणां सर्वमारविषयसमतिक्रान्तविहारविहारिणां सर्वलोकविषयानुपलिप्तविहारविहारिणां सर्वबोधिसत्त्वपारमिताविहारविहारिणां सर्ववुद्धविहारानुकूलविहारविहारिणामयं विहारः । ये ते सर्वनिमित्तापगतविहारिणश्च, न च श्रावकनियाममवक्रामन्ति । ये ते सर्वधर्मानुत्पादविहारविहारिणश्च, न च अनुत्पादधर्मतायां पतन्ति । ये तेऽशुभाविहारविहा- 6 रिणश्च, न च रागविरागधर्मतां साक्षात्कुर्वन्ति, न च रागधर्मः सार्धं संवसन्ति ।ये ते मैत्रीविहारविहारिणश्च, न च दोषमलोपगतचित्ताः। प्रतीत्यसमुत्पादविहारविहारिणश्च अत्यन्तासंमूढाश्च सर्वधर्मेषु । ये ते चतुर्थ्यानविहारिणश्च, न च ध्यानवशेनोपपद्यन्ते । ये ते चतुरप्रमाणविहारविहारिणश्च, न च रूपधातुगतिं गच्छन्ति सर्वसत्त्वपरिपाचनार्थम् । ये ते चतुरारूप्यसमापत्तिविहारविहारिणश्च, न चारूप्यधातुगतिं गच्छन्ति महाकरुणापरिगृहीतत्वात् । ये ते 10 शमथविपश्यनाविहारविहारिणश्च, न चात्मना विद्याविमुक्तिं साक्षात्कुर्वन्ति सर्वसत्त्वपरिपाकाय । ये ते महोपेक्षाविहारविहारिणश्च, न च सत्त्वधातुं परित्यजन्ति । ये ते शून्यताविहारविहारिणश्च, न च दृष्टिगतसंनिश्रिताः । ये ते आनिमित्तगोचराश्च निमित्तचरितसत्त्वनयाभिमुक्ताश्च । ये ते सर्वप्रणिधानविगताश्च बोधिसत्त्वप्रणिधानव्यवच्छिन्नाश्च । ये ते सर्वकर्मक्लेशवशवार्तिनश्च, सत्त्वपरिपाकाय च कर्मक्केशवशानुगाः संदृश्यन्ते । ये ते च्युत्युपपत्तिपरि-168472 ज्ञाताविनश्च, जन्मच्युतिमरणं च संदर्शयन्ति । ये ते सर्वगतिव्यतिवृत्ताश्च, सर्वगतिषु च गच्छन्ति सर्वविनयवशेन । ये ते मैत्रीविहारिणश्च, न कचिदनुनयविहारिणः । ये ते करुणाविहारिणश्च, न कचिदनुसंशयदर्शनविहारिणः । येते मुदिताविहारिणश्च नित्योद्विग्नाश्च दुःखितसर्वव्यवलोकनतया । ये ते उपेक्षाविहारिणश्च परकार्येषु । ये ते नवानुपूर्वविहारसमापत्तिविहारिणश्च, न कामधातूपपत्तिविजुगुप्सकाः। ये ते सर्वोपपत्त्यनिश्रितविहारिणश्च, 20 न च भूतकोटीसाक्षात्करणविहारिणः । ये ते त्रिविमोक्षविहारिणश्च, न च श्रावकविमुक्तिस्पर्शविहारिणः । ये ते चतुरार्यसत्यव्यवलोकनविहारिणश्च, न च फलसाक्षात्करणविहारिणः। ये ते गम्भीरप्रतीत्यसमुत्पादव्युपपरीक्षणविहारिणश्च, न चात्यन्तनिपतनविहारिणः । ये ते आर्याष्टाङ्गमार्गभावनाविहारिणश्च, न चात्यन्तनिर्याणविहारिणः । ये ते पृथग्जनभूमिसमतिक्रान्तविहारिणश्च, न च श्रावकप्रत्येकबुद्धभूमिपतनविहारिणः । ये ते पञ्चोपादान-25 . स्कन्धपरिज्ञानविहारिणश्च, न चात्यन्तस्कन्धनिरोधविहारिणः । ये ते चतुर्मारपथसमतिक्रान्तविहारिणश्च, न च मारकल्पनविहारिणः । ये ते षडायतनसमतिक्रान्तविहारिणश्च, न चात्यन्तानभिनिर्वृत्तिविहारिणः। ये ते तथताविहारिणश्च, न च भूतकोट्यायतनविहारिणः । ये ते सर्वयाननिर्याणसंदर्शनविहारिणश्च, न च महायानच्यवनविहारिणः, तेषामयं सर्वगुणविहारिणां विहारः॥ अथ खलु सुधनः श्रेष्ठिदारकस्तस्यां वेलायामिमा गाथा अभाषत
इह सो महाकरुण लामि विशुद्धबुद्धि
मैत्रेय मैत्रशिरि लोकहिताभियुक्तः। .