Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 405
________________ -५४.० ] ५४ मैत्रेयः 1 धेन सर्वधर्मावतारमुखेन सर्वकल्याणमित्रानुशासन्यवभासदिक्प्रसृतेन श्रद्धाधिमुक्तिप्रवेशबलेन । इति हि सुधनः श्रेष्ठिदारकः एवं गौरवचित्रीकारपूजास्तवप्रणिपातोदीक्षमाणाधिष्ठानप्रणिधानसंज्ञानुगतमानसः एवमप्रमाणज्ञानगोचर भूमिप्रसृतेन ज्ञानचक्षुषा वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्ताद्वारमूले सर्वशरीरेण प्रणिपतितः । स इममेवंरूपमभिनिर्हारप्रयोगं मुहूर्तं विचार्य अधिमुक्तिश्रद्धासमुत्थितेन अध्याशयप्रणिध्यभिनिर्धारवलेन अप्रतिप्रस्रब्धमात्मानमध्यतिष्ठत् सर्वतथागतपादमूलेषु, एवं सर्ववोधिसंमुखीभावेषु सर्वकल्याणमित्रभवनेषु सर्वतथागतचैत्येषु सर्वतथागतविग्रहेषु सर्वबोधिसत्त्वेषु सर्ववुद्धात्रासेषु सर्वधर्मरत्नस्थानेषु सर्वश्रावकप्रत्येकबुद्धाश्रयचैत्यसंमुखीभावेषु सर्वार्यगणदक्षिणीयगुरुमातापितृपर्यन्तेषु अप्रतिप्रस्रब्धमात्मानमध्यतिष्ठत् सर्वजगत्कायसंमुखीभावेषु सर्वत्रानुगतेन ज्ञानशरीरासंभेदनयप्रवेशानुगतेन संज्ञाधिष्ठानज्ञानमनसिकारेण । यथा च वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्तात्, 10 एवं पूर्वपरिकीर्तितेषु सर्वारम्बणेषु सर्वधर्मधातुस्फरणं प्रणिपातमध्यतिष्ठत् । एवमपरान्तकोटीगतान् कल्पानप्रतिप्रस्रब्धमधिष्ठाय आकाशधातुपर्यन्तप्रमाणसमतया धर्मधात्वनावरणसमतया सर्वत्रानुगत भूत कोटीसमतया तथागताविकल्पसमतया छायागतज्ञानसंज्ञास्फरणतया स्वप्नसम - विचारसमतया प्रतिभाससमसर्वलोकजगद्विज्ञप्तिसमतया प्रतिश्रुत्कासमहेतुप्रत्ययसमुत्थानसमतया अनुत्पादसमतया संभवविभवसमतया अभावसमप्रत्ययप्रतीत्यावर्तनसमतया यथाकर्म- 15 समुत्थितं विपाकमधिमुच्यमानो यथाहेतुसमुत्थितं फलमधिमुच्यमानो यथोपचयसमुत्थितां सर्वक्रियामधिमुच्यमानः श्रद्धासमुत्थितं सर्वतथागतोत्पादमधिमुच्यमानो यथाधिमुक्तिसमुत्थितानि सर्वबुद्धपूजानिर्माणान्यधिमुच्यमानो गौरवसमुत्थितानि सर्वतथागतनिर्माणान्यधिमुच्यमानः कुशलमूलोपचयसमुत्थितां सर्वबुद्धधर्मतामधिमुच्यमानः प्रज्ञोपायसमुत्थितान् सर्वमनोमयव्यूहोपचयानधिमुच्यमानः प्रणिधिसमुत्थितान् सर्वबुद्धधर्मानधिमुच्यमानः परिणाम नासमुत्थितान् 20 सर्वबोधिसत्त्वचर्यासर्वज्ञताविषयधर्मधातुविठपनस्फरणालंकारव्यूहान धिमुच्यमानः उच्छेदसंज्ञाविगतेन परिणामनाज्ञानेन शाश्वतसंज्ञाविभूतेन अनुत्पादज्ञानेन हेतुक्रियादृष्टिविगतेन सम्यक् - क्रियादृष्टिविगतेन समक्रियादृष्टिविगतेन समक्रियावतारहेतूपचयज्ञानेन, विपर्यासदृष्टिविगतेन अपरप्रत्ययज्ञानेन, आत्मपरसंज्ञादृष्टिविगतेन प्रतीत्यावतारज्ञानेन, अन्तग्राहदृष्टिविगतेन अनन्तमध्यधर्मधातुप्रवेशज्ञानेन, संक्रान्तिदृष्टिविगतेन प्रतिष्ठासमताभिनिर्वृत्तिज्ञानेन, भव- 25 विभवदृष्टिविगतेन अनुत्पादनिरोधज्ञानेन, सर्वदृष्टिविगतेन शून्यतानुत्पादज्ञानेन, अनैश्वर्यधर्मता प्रतिबद्धेन प्रणिध्यभिनिर्हारज्ञानबलेन सर्वनिमित्तसंज्ञापनीतेन अनिमित्तकोटीमुखज्ञानेन बीजाङ्कुरविनाशधर्मतया मुद्राप्रतिमुद्रासमुत्थानसमधर्मतया प्रतिबिम्बदर्शनसमधर्मतया प्रतिश्रुत्कासमरुतघोषविज्ञप्तिधर्मतया स्वप्नसमविचारविज्ञप्तिधर्मतया प्रतिभासदर्शनसमधर्मतया मायागतसमकर्मसमुत्थानधर्मतया चित्तारूपिलोकोत्थापनधर्मतया यथाप्रत्ययहेतूपचयफल - 30 धर्मतया, यथाकर्मोपचयविपाकसमधर्मतया उपायकौशल्यविठपनधर्मतया धर्माधर्मसमतिसमताभिष्यन्दितधर्मतया । एवं ज्ञानप्रवेशाभिर्निर्हृतेन संज्ञामनसिकारेण सुधनः श्रेष्ठिदारको १ B निर्धूतेन. गण्ड, ४७ ३६९ B 187 S 469

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491