Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 432
________________ B195 गण्डव्यूहसूत्रम्। [५४.१७८धातुमविकोपक्रियया ईदृश्या गृहभोगकामरतिसुखमातापितृज्ञातिसर्ववस्त्वनपेक्षपरित्यागतया बोधिसत्त्वमहायानान् पर्येषन्ते । ईदृश्या कायजीवितनिरपेक्षतया सर्वज्ञतामभिलषन्ते । न हि कुलपुत्रास्तामन्ये बोधिसत्त्वाः कल्पकोटीनियुतशतसहस्रैर्वोधिसत्त्वचर्याप्रणिधिपरिपूरिमधिगमिष्यन्ते बुद्धबोधौ वसन्तो भविष्यन्ति वुद्धक्षेत्रपरिशुद्धौ वा, सत्त्वपरिपाकविनये वा, 5 धर्मधातुज्ञानप्रवेशे वा, पारमितासमुदागमे वा, चर्याजालप्रविस्तारे वा, प्रणिधानाभिनिहारपरिपूर्यां वा, मारकर्मसमतिक्रमणे वा, कल्याणमित्रारागणे वा, सर्वबोधिसत्वचर्यासमुदानयपरिशोधने वा, समन्तभद्रबोधिसत्त्वचर्याभिनिहारबलपरिनिप्पत्तौ वा समुद्रागमिष्यन्ति, यदेषोऽनेन एकजन्मप्रतिलम्भेन अधिगमिष्यति ॥ अथ खलु मैत्रेयो बोधिसत्त्यो महासत्त्वः सुधनस्य श्रेष्ठिदारकस्य भूतगुणवर्णकीर्तनं 10 कृत्वा तदारम्बणं च प्राणिशतसहस्राणां बोध्यङ्गाशयं दृढीकृत्य सुधनं श्रेष्टिदारकमेतदवोचत् साधु साधु कुलपुत्र, येन ते सर्वलोकहितसुखाय सर्वसत्त्वधातुपरित्राणाय सर्वबुद्धधर्मप्रतिलम्भाय अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । सुलब्धास्ते कुलपुत्र लाभाः, खागतश्च त्वं मनुष्यप्रतिलम्भः । सुजीवितं ते जीवलोकेपु । आराधितश्च ते बुद्धोत्पादः । सुदृष्टश्च ते मञ्जुश्रीः कल्याणमित्रम् । सुभाजनता च ते संतानस्य । खभिष्यन्दितश्च त्वं कुशलमूलैः । 15 सूपस्तब्धश्च शुक्लधर्मैः । सुविशोधिता च ते उदाराधिमुक्तिकल्याणाध्याशयता । समन्वाहृतश्चासि सर्वबुद्धैः। सुपरिगृहीतश्च त्वं कुलपुत्र कल्याणमित्रैः, येन तेऽध्याशयेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । तत्कस्य हेतोः? बोधिचित्तं हि कुलपुत्र बीजभूतं सर्वबुद्धधर्माणाम् । क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया, धरणिभूतं सर्वलोकप्रतिशरणतया, वारिभूतं सर्वक्लेशमलनिर्धावनतया, वायुभूतं सर्वलोकानिकेततया, अग्निभूतं सर्वदृष्ट्यपादान20 कक्षनिर्दहनतया, सूर्यभूतं सर्वसत्त्वभवनावभासनतया, चन्द्रभूतं शुक्लधर्ममण्डलपरिपूरणतया, प्रदीपभूतं धर्मालोककरणतया, चक्षुर्भूतं समविषमसंदर्शनतया, मार्गभूतं सर्वज्ञतानगरप्रवेशनतया, तीर्थभूतं कुतीर्थविवर्जनतया, यानभूतं सर्वबोधिसत्त्वाभिरोहणतया, द्वारभूतं सर्वबोधिसत्त्वचर्यामुखप्रवेशनतया, विमानभूतं समाधिभावनाध्याशनतया, उद्यानभूतं धर्मरत्यनुभावनतया, लयनभूतं सर्वजगत्परित्राणतया, प्रतिशरणभूतं सर्वलोकहितवहनतया, 25 निश्रयभूतं सर्वबोधिसत्त्वचरणतया, पितृभूतं सर्वबोधिसत्त्वारक्षणतया, जनयित्रीभूतं सर्व सत्त्वानाम् , धात्रीभूतं सर्वतः परिपालनतया, राजभूतं सर्वशैक्षाशैक्षप्रत्येकबुद्धचित्ताभिभवनतया, अधिपतिभूतं सर्वप्रणिधानविशिष्टतया, महासागरभूतं सर्वगुणरत्नसमवसरणतया, महामेरुभूतं सर्वसत्त्वसमचित्ततया, चक्रवालभूतं सर्वलोकप्रतिशरणतया, हिमवद्भूतं ज्ञानौषधिविवर्धनतया, गन्धमादनभूतं सर्वगुणगन्धाश्रयतया, गगनभूतं महा30 गुणविस्तीर्णतया, पद्मभूतं सर्वलोकधर्मानुपलिप्ततया, नागेभूतं दान्ताजानेयतया, आजानेयाश्वभूतं सर्वखटुङ्कताविगततया, सारथिभूतं महायानप्रतिलयनपूर्वगमनतया, भैषज्यभूतं १ B सुक्षणस्य.. RS om, नागभूतं दान्ताजानेयतया. 8494

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491