________________
B 179
s419
४७ शिल्पाभिज्ञः। अथ खल सुधनः श्रेष्ठिदारको येन शिल्पाभिज्ञो श्रेष्ठिदारकस्तेनोपसंक्रम्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पादौ शिरसाभिवन्द्य शिल्पाभिज्ञस्य श्रेष्टिदारकस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि कथं वोधिसत्त्वेन वोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् । श्रुतं च मे आर्यो । बोधिसत्त्वानामववादानुशासनी ददातीति । तद्वदतु मे आर्य:-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
सोऽवोचत्-अहं कुलपुत्र शिल्पाभिज्ञावतो बोधिसत्त्वविमोक्षस्य लाभी । तस्य मे कुलपुत्र मातृकां वाचयमानस्य अकारमक्षरं परिकीर्तयतो बोधिसत्त्वानुभावेन असंभिन्न- विषयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । रकारं परिकीर्तयतोऽनन्ततलसंभेदं नाम 10 प्रज्ञापारमितामुखमवक्रान्तम् । पकार परिकीर्तयतो धर्मधातुतलसंभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम् । चकारं परिकीर्तयतः समन्तचक्रविभक्तिच्छेदनं नाम प्रज्ञापारमितामुखमव- क्रान्तम् । नकारं परिकीर्तयतोऽनिलयप्रतिलब्धं नाम प्रज्ञापारमितामुखमवक्रान्तम् । लकारं परिकीर्तयतो विगतानालयविमलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । दकारं परिकीर्तयतोऽवैवर्त्यप्रयोगं नाम प्रज्ञापारमितामुखमवक्रान्तम् । वकारं परिकीर्तयतो वज्रमण्डलं नाम 15 प्रज्ञापारमितामुखमवक्रान्तम् । डकारं परिकीर्तयतः समन्तचक्रं नाम प्रज्ञापारमितामुखमवक्रान्तम् । सकारं परिकीर्तयतः सागरगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम् । वकारं परिकीर्तयतः समन्तविरूढविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । तकारं परिकीर्तयतो ज्योतिर्मण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । यकारं परिकीर्तयतः संभेदकूटं नाम प्रज्ञापारमितामुखमवक्रान्तम् । ष्टकारं परिकीर्तयतः समन्तदाहप्रशमनप्रभासं नाम प्रज्ञापार- 20 मितामुखमवक्रान्तम् । ककारं परिकीर्तयतोऽसंभिन्नमेघ नाम प्रज्ञापारमितामुखमवक्रान्तम् । षकारं परिकीर्तयतो अभिमुखप्रवर्षणप्रलम्बं नाम प्रज्ञापारमितामुखमवक्रान्तम् । मकारं परिकीर्तयतो महावेगविचित्रवेगशिखरं नाम प्रज्ञापारमितामुखमवक्रान्तम् । गकारं परिकीर्तयतः समन्ततलविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम् । थकारं परिकीर्तयतः तथतासंभेदगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम् । जकारं परिकीर्तयतो जगत्संसारविशुद्धिविगाहनं 25 नाम प्रज्ञापारमितामुखमवक्रान्तम् । खकारं परिकीर्तयतः सर्वबुद्धस्मृतिव्यूहं नाम प्रज्ञापारमितामुखमवक्रान्तम् । धकारं परिकीर्तयतो धर्ममण्डलविचारविचयं नाम प्रज्ञापारमितामुख-. मवक्रान्तम् । शकार परिकीर्तयतः सर्वबुद्धानुशासनीचक्ररोचं नाम प्रज्ञापारमितामुखमवक्रान्तम् । खकार परिकीर्तयतोऽभिसंस्कारहेतुभूमिज्ञानगर्भ नाम प्रज्ञापारमितामुखमवक्रान्तम्। क्षकारं परिकीर्तयतः कर्मनिशान्तसागरकोशविचयं नाम प्रज्ञापारमितामुखमवक्रान्तम् । 30 स्तकारं परिकीर्तयतः सर्वक्लेशविकिरणविशुद्धिप्रभं नाम प्रज्ञापारमितामुखमवक्रान्तम् । अकार परिकीर्तयतो लोकसंभवविज्ञप्तिमुखं नाम प्रज्ञापारमितामुखमवक्रान्तम् । थकारं परिकीर्तयतः संसारप्रतिचक्रज्ञानमण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम् । भकारं परिकीर्तयतः सर्व
गण्ड.४५
8450